________________
240
Traverses on less trodden path...
कैरगन्तुं शस्यो । 1चिन्तामणिमन्त्रोपासनालब्धतीव्रतरमतिभवोऽयं प्रतिभासामर्थ्य सर्वानन्यान् कवीनतिशेते ।
एतेन प्रगीतं नैषधीयचरितं सुप्रसिद्धेषु पञ्चसु महाकाव्येषु न केवलमन्यतमत्वेन परिगण्यते अपे तु सर्व धरीत्या सर्वोत्कृष्टमिति सुविदितमेव सर्वेषामपि विदुषाम । काव्यस्यास्याध्ययन संस्कृतभाषापटुत्वं विविधशाम्नविषयकवैदुष्यचाधिगन्तुं प्राचीनसंस्कृत साहित्याध्ययन परम्परायामपरिहार्यत्वेन निर्दिश्यते । गद्यकाव्येषु यथा कादम्बरी बागस्याद्वितीयेति परिगण्यते तथैवाप्रतिममिदं नैषधं काव्यप्रन्थेषु ! कविकुलतिलक कालिदासं विहाय नैषधकाव्यप्रणेतुः श्रीहर्षस्य महिमातिशयः भारविमाघाद्यपेक्षया गरीयानीति ‘उदिते नैषधे काव्ये क माघः क्वच भारवि.' इत्यभियुक्तोक्यःऽवगन्तुं शक्यते । कैदिचकाव्यममज्ञरेवमप्युक्तं दरीदृश्यते यत् पञ्चसु महाकाव्येषु कवि कुलगुरोः कालिदासस्य रघुवंशकुमारसम्भवे स्त्रीचरित्रवर्णनात्मके, भारविमाघयोः किरातार्जुनीयशिशुपालवधकाव्ये च पुरुषचरित्रवर्णनात्मके । परमेतस्य श्रीहर्षस्य नैषधीयकाव्यन्तु प्रकृतिपुरुषर्योरुभयोरपि समानरूपेण वर्णनात्मकं निसर्गभिन्नारपदमेक संस्थं महाकाव्यमिति । तदुक्तं-द्वे स्तेत्र प्रकृतेः पुंसे द्वे चैकमुभयोरपि । पञ्चस्वेतेषु पाण्डित्यं पुरुषार्थो हि पञ्चमः'15 इति । राजशेखरस्य काव्योलोचनसिद्धान्तानुसारेण शास्त्रकविः काव्यकविः तथोभयकविश्चेति त्रिप्रकारकाः भवन्ति कवयः । केचन काव्यसंसारे संस्कारप्रतिभाशक्त्या कवयो भवन्ति, अपरे तु शास्त्रादीनामभ्यासबलाच्च । एतादृशानां कवीनां काव्यग्रन्थेषु केवलं शृङ्गारादिरसपरिपूर्ण काव्यसौन्दर्य नीरसशास्त्रनियमानां वा प्रदर्शनं वयमक्षिसाकुर्मः । उभयोरपि सङ्गमो एकत्र दुर्लभप्रायो दृश्यते । अत एवं राजशेखर उभयत्रप्रवीण एव महाकविरिति समुद्घोषयति तथोभयकविस्तूभयोरपि वरीयान् याभयत्र परं प्रवीणः स्यात् 15 इत्यादिना । नैषधीयकाव्ये काव्यकलाकौशलं शास्त्रीयसिद्धान्तानां च सरससरण्या प्रतिपादनमवलोक्य उभयकविरासीत् श्रीहर्षः इति निःसन्देहेन वक्त पार्यते ।
नलदमयन्तीचरितप्रतिपादकं काव्यमिदं भारते प्रसिद्धेषु फचसु महाकाव्येष्वन्त-- भंतं गुणालङ्काररसभावादिविषये परमोत्कर्षमधिरूढं विद्वत्प्रियञ्च वरीवर्ति । अद्योपलभ्यमानमिदं २८०० श्लोकैः परिमितं द्वाविंशतिसर्गात्मकं बृहत्कायं महाकाव्यम् । अत्र तु द्वित्रान् सर्गानपहायान्ये सर्वेऽपि शताधिकैः श्लोकः संयोजिताः सन्ति । अत्र द्वाविंशस्य सर्गस्यान्ते श्रयमाणा 'श्रीरस्तु नस्तुष्टये 16 इत्येवं रूपा मङ्गलाशंसा काव्यस्यास्य द्वाविंशसर्गात्मकत्वमेव प्रख्यापयति । 12. तच्चिन्तामणिमन्त्रचिन्तनफले महाकाव्ये - नै. I-145. 13. नैषधीयपरिशीलन - डॉ. चंडिका प्रसाद शुक्ल, पृ. 555. 14. यच्छास्त्रसंस्कार: काव्यमनुगृणहाति, शास्त्रैकप्रवणता तु निगृहाति । काव्यसंस्कारोऽपि
शास्त्रवाफ्यपाकमनुरुणद्धि, काव्यक प्रवणता तु विरुणद्धि ।-काव्यमीमांसा-V. 15. काव्यमीमांसा-v. 16. ने.-XXII- 150.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org