________________
236
Traverses on less trodden path...
तथा सर्वस्यानेकान्तात्मकत्वेऽङ्गोक्रियमाणे जलादेशयनलादिरूपता, अनलादेरपि जलरूपता, ततश्च जलार्थी प्रवर्तेतानलादावपि, अनलार्थी च जलादावपीति, प्रतिनियतव्यवहारलोपः भवेत । अतोऽनेकान्तवादस्वीकरणं व्यवहारविरुद्धम् । रामानुजाचार्याः आक्षेरमुद्भावयन्ति यत् सर्वस्यास्य मूलभूतः सप्तभङ्गीनयः स्वयमेकान्तोऽनेकान्तो वा । एकान्तश्चत् सर्वमनेकान्त मत्यस्य वादस्यैव हानिः । द्वितीयेऽनेकान्तत्वेनासाधकत्वात् त्रिविक्षितार्थाऽसिद्धिः । तथा चेयमुभयतः पाशारज्जुः स्याद्वादिनः स्यात् इति ॥ 88
जैनानामयमभिप्राय यत् प्रतिपक्षिभिरनेकान्तवादस्य रहस्यमेव न ज्ञातम् इति । अनेकान्तवादस्य सम्यग्ज्ञानाभाव एव तैः प्रदर्शितविरोधादिदोषः सुस्पष्टो भवति । सूक्ष्मे किया विचार्यमाणे विरोधादिदोषाः न दृश्यन्तेऽनेकान्तवादे । यदि वस्तुनः येन प्रकारेण सत्त्वं तेनैवासत्त्वं, येनैव चासत्त्वं तेनैव सत्त्वमित्युच्यते तदा विरोधः संभवेत् । परं वस्तु स्वरूपेणास्ति, पररूपेण नास्तीति प्रतिपादनेन नास्त्यवकोशः विरोधस्य । अत एवोच्यते 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसंभवः 04 इति । स्वरूपक्षेत्रकालभावै सत्त्वं पररूपक्षेत्र कालभावैस्त्वसस्त्रमिति वस्तुनः मन्तव्यम् । दधिदृष्टान्तेन विचारसरणिश्यिं स्पष्टा भवेत् । दधि स्वरूपापेक्षया भवति । यदि दधि तदुभिन्नोष्ट्रापेक्षया दधि भवति चेत् 'दधि भक्षय' इति कथनेन दधिग्रहणवद् उष्ट्रमपि ग्रहीतुं गच्छेत् दधिभक्षणेच्छुकः । परमेतादृशः क्रमो व्यवहारे न दृश्यते । तदुक्तं - 'चोदितो दधि खादति किमुष्ट्रमभिधावति १०० इति । एवं सर्वपदार्थानां स्वरूपेण सत्त्वं पररूपेणासत्त्वञ्च विधीयते । जीवस्य तावत् सामान्योपयोगः स्वरूपं तस्य तल्लक्षणत्वात् । ततोऽन्योऽनुपयोगः पररूपम् । ताभ्यां सदसत्त्वे प्रतीयेते एकस्मिन्नेव जीवे ।
5
6
एवमेकस्यैव वस्तुनः युगपदुभयरूपता सदसदात्मिका घटते यथैकस्य पुरुषस्यापेक्षावशात् लघुत्व - गुरुत्व - बालत्व - वृद्धत्व - युवत्व - पुत्रस्त्र - पितृत्वादीनि परस्परविरुद्धान्यपि तथा सत्त्वासत्रादीन्यपि । भावानां सर्वथा विरोधो न घटते । तदुक्तं - 'अस्तित्वनास्तित्वयोरवच्छेदकभेदे नायमाणयोर्विरोधाभावात् । अथैकस्यैव देवदत्तस्यैकापेक्षया पितृत्त्रमन्यापेक्षया पुत्रत्वञ्च परस्परमविरुद्वम्' इति । 8 अपि चैकस्मिन्नेव वस्तुनि कथञ्चित् सत्यासत्ये स्थाताम्, यथैकत्र वृक्षादौ चलाचलात्मनोः वटादौ रक्तारक्तात्मनोः शरीरादात्रावृत्तानावृत्तात्मनोश्चोपलंभो भवति, तथा चैकत्र धूपपटादौ चावच्छेदकभेदेन शीतोऽगस्पर्शयो रुपालंभः भवत्यविरोधेन । एवं सत्त्वासत्त्वेऽप्येकस्मिन् वस्तुन्यविशेघेन
सम्भवतः ।
63. श्रीमान्य - II - 2 - 23: षड्दर्शनसंग्रह - पृ. 183.
64. तत्रार्थ राजवार्तिक - 2. 24.
65. स्याद्वादमञ्जरी - 130.
66. न्यायविनिश्चय - पृ. 374.
67. उपयोगो लक्षणम् - तस्वार्थ सूत्र - II-8,
68. तस्वार्थ राजवा र्तिक - पृ. 36.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org