________________
अनेकान्तवादस्य स्वरूपम्
235
प्रतिपद्यन्ते । अस्यैवाने कान्तवादस्य स्याद्वादस्य वा सकलदर्शनसमन्वयात्मकरूपस्य स्वरूप - वर्णनं अमृतचंद्राचार्यैः परमरमणीयतया वर्ण्यते । यथा गोपी मन्थाननेत्रस्याकर्षण - शिथिलीकरण क्रियाद्वारेण दध्नः सारभूतं नवनीतं प्राप्नोति तद्वत् स्याद्वादोऽनेकान्त - वादो वा धर्माणां प्राधान्योपसर्जन भावेन वस्तुतत्त्वरूपममृतं गृह्णाति । तदुक्तं - एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्रमितरेण । अन्तेन जयति जैनीनीतिर्मन्थाननेत्रमिव गोपी " ॥ 88
01
59
जैनानामनेकान्तवादः बहुदोष दूषितोऽस्ति इति दर्शनान्तरधुरन्धराणामाक्षेपः । वस्तुनः सदसके, सत्वासत्वात्मके, नित्यानित्यात्म के, भिन्नाभिन्नात्मके स्वरूपे स्वीक्रियमाणे विरोव संशप्रपङ्करादिदोषाः सम्भवन्तीति बौद्धशंकर रामानुजाद्याचार्याः सम्मन्यन्ते । तथा हि-यदेव वस्तु सत् तत् कथमसद् भवेत् । यद्यसच्चेत् कथं सदिति विरोधः । वस्तु सद्वा असत् भवेत् । एक रेमन् वस्तुनि नोभयं सम्भवति । सत्वासत्वयोः शीतोष्णस्पर्शवन परस्परपरिहारेण स्थितिः दृश्यते ४०- धौव्येण उत्पादव्यययोः विरोधादेकस्मिन् धर्मिण्ययोगादित्यादि " वचनात् 180 संशयवादोऽयमनेकान्तवादो नामेति श्रोशंकराचार्यैः ब्रह्मसूत्रभाष्ये उद्घोष्यते । तथाहि - सत्वासत्वात्मके वस्तुनोऽ. भ्युपगम्यमाने सदिदं वस्त्रसद्वेत्यवधारणद्वारेण निर्णीतेरभावात् संशयः 'नैकस्मिन् संभवात् ' । न ह्येक रेमन् धर्मिणि युगपत् सदसत्वादि विरूद्धधर्मसमावेशः संभवति 'शीतोष्णवत्' इत्यादि । 01 अन्यच्चाने कान्तवादरवीकरणात् अनवस्थासंकरव्यतिकरादयोऽन्ये बहवो दोषाः समापतन्ति । येनांशेन सत्वमित्युच्यते किं तेनैव सत्वमाहोवित् तेनापि सत्वासत्वम् । यदि तेनांशेन सत्वं तदा, सर्वथा सदित्यङ्गीकाररूपैकान्तवादाभ्युपगमादने कान्तवादहानिर्भवति । यदि येनांशेन सत् तेनैत्र सदसदित्युच्यते तदा येनांशेन सत्वं तेन किं सत्यमेवाहोस्वित् तेनापि सत्त्वासत्त्वमित्यादिना 'अनवस्थादोषप्रसङ्गः । तथा च येन रूपेण सत्त्वं तेन सत्त्वमसत्त्वं च स्यादिति सङ्करः 'युगपदुभयप्राप्तिः सङ्करः' इति वचनात् । तथैव येन रूपेण सत्त्वं तेनासत्वमपि स्याद्, येन चासत्त्रं तेन सत्त्वमपि स्यादिति व्यतिकरः, परस्परविषयगमनं व्यतिकरः ' इति वचनात् । ०४
"
58. पुरुषार्थ सिध्युपाय -
-q. 225.
59. यदा व्ययस्तदा सत्वं कथं तस्य प्रतीयते ।
पूर्व प्रतीते सत्वं स्यात् तदा तस्य व्ययः कथम् । ध्रौव्येऽपि यदि नास्मिन् धोः कथ सत्वं प्रतीयते । प्रतीतेरेव सर्वस्य तस्मात्सत्वं कुतोऽन्यथा । तस्मात् न नित्यानित्यस्य वस्तुनः संभवः कचित् ॥ - प्रमाणवार्तिकालङ्कार - पृ. 142.
60. हेतु विन्दुटीका – 146.
61. ब्रह्मसूत्र शांकरभाष्य - II - II - 23.
62. षड्दर्शन समुच्चयटीका - पृ. 357.
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org