________________
234
Traverses on less trodden path...
__ शब्दद्वारेण युगपदेव सकलधर्माणां प्रतिपादनमसंभवमेव । अतः यो धर्मः विवक्षितः वस्तुनः स प्रधानो भवति, गौणीभूताश्चभवन्त्यन्ये । अत्र प्रथम भङ्गेसत्वस्य प्राधान्यं पुनरसत्वस्य द्वितीये, तृतीये, क्रमार्पितयोः सत्वासत्वयोः, चतुर्थत्ववक्तव्यत्वस्य, पञ्चमे सत्वविशिष्टावक्तव्यत्वस्य, असत्वविशिष्टावक्तव्यत्वस्य च षष्ठे, सप्तमे तु क्रमापित. सत्वासत्वस्य विशिष्टावक्तव्यत्वस्येति मन्तव्यम् । अत्र स्वरूपादिभिरस्तित्वमिव नास्तित्वमपि स्यादित्यनिष्ठार्थस्य निवृत्तये स्यादस्त्येवेत्येवकारः । तेन च स्वरूपादिभिरस्तित्वमेव न नास्तित्वमित्यवधार्यते । अत एवोक्तं 'वाक्येनावधारणं तावदनिष्ठार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्' । वस्तूनामनेकत्वादनेके भङ्गाः भवितुमर्हन्ति, सप्तैव भङ्गाः इति कथं वक्तुं शक्यतेति शङ्का समुत्पधेत । परन्तु प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गाः । अत एवोक्तं रत्नाकराव. तारिकायां-'एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमनेऽनन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गोति चेतसि न विधेयम् । विधिनिषेधप्रकाशापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गोनामेव सम्भवात् 154 एकत्र वस्तुनि सप्तभङ्गाः भवितुमर्हन्ति यथा एकस्मिन्नेव घटे रूपवान् घटः, रसवान् घटः, स्पर्शवान् घटः इत्यादि पृथग्व्यवहारनिवन्धना. रूपत्वादि स्वरूपभेदाः संभवन्ति तथैव मन्तव्यम् । द्रव्यात्मना वस्तु स्यादेकमेव नो नाना। पर्यायात्मनो नानैव स्यात् नैकम् । तदेतत्प्रतिपादितं तत्त्वार्थराजवतिके -"अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽ. पितान् नयात्"10 इति ।
एवं सकलदार्शनानां परस्परविरुद्धभाषिणामभिमतवस्तूनां सद्भूतांशानां परस्परसापेक्षया कथन स्याद्वाद:56 इति जनानां मतम् । जैनदर्शनधुरीणाः समन्तभद्राकलंकहरिभद्र. प्रभाचन्द्रादयो सांख्यं सदेवेकान्तवादी, माध्यमिकमतमस देकान्तवादी, न्यायवैशेषिकमतं सदसदेकान्तवादी, प्राचीनबौद्धमतमव्यक्ते कान्तवादी,, शाङ्कराद्वैतमतं सदवक्तव्यकान्तवादो, बौद्धानामपोहवादिनां मतमसदवक्तव्यकान्तवादी, पदार्थवादो सदसदव्यक्तव्य कान्तवादा इति वदन्तः नित्यानित्यैकान्तवादिनां सकलदर्शनानामन्तर्भावो सप्तभङ्गीनयरूपे स्याद्वादे भवतीति प्रतिपादयन्ति । ये ये वस्त्वंशाः नित्यमनित्यं सदसत् इत्यादि । परैरङ्गीकृताः सर्वेऽपि सापेक्षाः सन्तः (स्यान्नित्यं, स्यादनित्यं इत्यादि) परमार्थसत्यतां
52. सप्तभङ्गीतरङ्गिणी-पृ. ९. 53. प्रमाणनयतत्त्वालोकालङ्कार-रत्नाकरावतारिका-IV-15-पृ. 61. 54. प्रमाणनयतत्त्वालोकालङ्कार - 1V-37-45. 55. तत्त्वार्थराजवार्तिक-पृ. 35. 56. षड्दर्शनसमुच्चयटीका १ 3. 57. आप्तमीमांसा -9-10; अष्टसहस्त्री, न्यायकुमुदचन्द्र, प्रमेयकमलमार्तण्ड, स्याद्वादमंजरी,
षड्दर्शनसमुच्चयटीका, इत्यादयो ग्रन्थाः दृष्टव्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org