________________
अनेकान्तवादस्य स्वरूपम्
233 अकलङ्कदेवैः विचारोऽयं विशदीकृतोऽस्त्येवं - 'स्याज्जीवः' इत्युक्तेऽनेकान्तविषयः स्याछब्दः । 'स्यादस्त्येव जीवः' इत्युक्ते एकान्ततिषयः स्याच्छब्दः' इति ।
वस्तुन्येक स्मन्ननेके धर्माः भवन्ति, शब्दैः युगपदेव सकलधर्माणां प्रतिपादनमशक्यमेव । अतः एव सप्तनयानां समन्वयरूपात्मकं सप्त भङ्गीनयं नाम न्यायं योजयितव्यमिति जनानां मतम । एकस्मिन्नेव वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गीत्युच्यते । तदुक्तं, 'स्यादस्ति स्यान्नास्ति उभयमवक्तव्यं चेति पुनश्च त्रितयम् । दव्यं खलु सप्तभङ्गमादेशवशेन सम्भवति' । विचारस्यास्यैव विस्तरेण विवरणं प्रमाणनयतत्त्वालोकालङ्कारे तट्टीकायां रत्नाकरावतारिकायां च दरीदृश्यते । तथाहि-एकत्र जीवादी वस्तुन्यकैकसत्त्वादि धर्मविषयप्रश्नवशादविरोधेन प्रतिपक्षादिबाधा परिहारेण पृथग्भूयो समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो सप्तभिः प्रकारैः वचनविन्यासः सप्तभङ्गीति विज्ञेयः"180 तद्यथा1
(१) 'स्यादस्त्येव घटः' इति विधिकल्पनाया प्रथमो भङ्गः । (२) 'स्यान्नास्त्येव घटः' इति प्रतिषेधकल्पनया द्वितीयो भङ्गः । (३) 'स्यादस्त्येव स्यान्नास्त्येव च घटः' क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः । (४) 'स्यादवक्तव्यः एव' इति युगपत् विधिनिषेधकल्पनया चतुर्थो भंगः ।
(५) स्थादस्त्येव, स्यादवक्तव्यः एवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया पञ्चमः ।
(६) स्यान्नास्त्येव स्यादवक्तव्य एवेति निषेधकल्पनया युगपत् विधिनिषेध. कल्पनया च षष्ठः ।
(६) स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यश्चैवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमो भङ्गः ।
47. लघीयस्त्रय, ष्ट. 85. 48, राजबार्तिक-1-6. 49. (a) चास्तिकाय समयसार.
(b) आप्तमीमांसा-14-15. 50. प्रमाणनयतत्त्वालोकालङ्कार-IV-14. 51. (a) आप्तमीमांसाटीका-14, 15, 16.
(b) प्रमाणनयतत्वालोकालङ्कार-IV. (c) स्याद्वादमंजरी-209-212. T-30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org