________________
232
Traverses on less trodden path... तदुक्तं .. 'स्वाभिप्रेतादशान इतरांशापलापी पुनर्नयाभासः'88 इति । नित्यानित्यायेकान्त प्रदर्शक सकलं वाक्यं नयाभासः इत्युच्यते । नित्यै कान्तवादिभिरनित्यैकान्तवादिभिश्चा. नेकान्तात्मकवस्तुनो एकान्तसत्यताग्रहणेऽभिनिवेशो कियतेति तेषां मतानि नयाभासेऽन्त. भवन्ति । ते एव सापेक्षतया सत्यतां प्रतिपद्यन्ते । ___एक सर्वाण्यपि परदर्शनानि जैनानां नयवादेऽन्तर्भवन्तीति दृष्टम स्माभिः । नयवादस्वन्धगजन्याय इवैकान्तिको भवति । एतेषां सतनयानाम् समन्वयात्मको वादः स्याद्वादः इत्युच्यते । स्याहादेऽस्मिन् सकलनथानामन्तर्भावात वस्तुनोऽनन्तांशानां ज्ञानं भवति अत एव प्रमाणवाक्यं सकलादेशो वा इति कथ्यते । तदुक्तं, "स्याद्वादः सकलादेशः' 39 इति । यथा वस्तुनोऽनन्तधर्माः प्रधानभूताः भवन्ति तत्सकलादेशः इत्यच्यते । जगत सर्वतत्त्वानां प्रमाणनयः ज्ञानं भवति । प्रमाणनयैरधिगमः40 इति वचनात् । स्थाद्वाद एवं प्रमाणवाक्यमित्युच्यते । स्याद्वाद एत्र 'अनेकधर्मात्मकवस्तुविषयबोधजनकल्यान' सकलादेशः इति निगद्यते ।
विधिनिषेधापेक्षया अनेकान्तवादे यदा निक्षिप्यते चक्षुस्तदा स्याद्वादो दृष्टिगोचरो भवति । अनेकान्तात्मकवस्तुनः प्रवचनरुपेण प्रतिपादनमेव स्याद्वाद । स्याद्वादद्वारेणानेकान्तात्मकवस्तुनः प्ररूपणं भवति । अनेकान्तार्थकथनमेव स्याद्वाद:48 इत्युक्तमकरङकदेवैरपि । स्याच्छब्दप्रयोगेण सर्वथैकान्त दृष्टेः परिहारो भवति स्याद्वादः सर्वथै कोन्तत्यागात् किंवृत्तचिद्विधिः ॥ इति वचनात । अमृतचंद्राचार्या अपि कथयन्ति यत् 'सरंथात्वनिषेधकोऽनेकान्तताद्योतको कथविच दर्थे स्याच्छब्दो निपातः' इति । स्याच्छब्दः खल्वयं निगतरितगन्तपातिरूपोऽनेकान्तद्योती । तदुक्तं समन्तभद्वचार्य:'वाक्येष्यनेकान्तद्योती गम्यं प्रत विशेषकः । स्यान्निपातोऽथ योगित्वात 40 इति । स्यादम्तीत्युक्ते कथचिदस्तीत्यर्थः ।।
'स्यान' शब्दद्वारेणानेकान्तस्यैकान्तस्य च बोधो भवितुमर्हति । यथा-ज्ञान-दर्शनसख वीर्याधनंतगुणाः विद्यन्ते आत्मनि । यदा विवक्षुरनन्तधर्मान् लक्षीकृत्य वदति तदा स्याच्छब्देन सह जोवपदप्रयोगः ( 'स्याज्जीवः' इति) आत्मनोऽनन्तधर्माणां सूचको भवति स्यादस्ति जीवः' इति कथनेन केवलं जीवस्यारितत्वमेव स्याच्छब्देन द्योत्यते ।
38. प्रमाणनयतत्वालोकालङ्कार-VII-2. 39. लघीयस्य -श्रुतोपयोगपरिच्छेद-12 40. तत्वाश्रमूत्र-1-6. 41. सप्तभङ्गीतरङ्गिी , पृ. 16. 42. स्याद्वाद: भगवत्प्रवचनम् -न्यायविनिश्चयविवरण, प 264. 43. लधीयस्त्रय-83. 44. आप्तमीमांसा - 104. 45. पञ्चास्तिकायटीका 46. आप्तमीमांसा-103.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org