________________
अनेकान्तवादस्य स्वरूपम्
तदुक्तं 'सन्मात्रग्राही परामर्शः संग्रहः' इति । अत्र विशेषाणामेकरूपतया सामान्यस्यैव ग्रहणं भवति यथा 'विश्वमेकं सदविशेषात्' इति । संगृहीनान् सत्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते स व्यवहारनयः, यथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादि । ऋजुसूत्रनयस्तु ऋजुत्रर्तमान क्षणस्थायी पर्यायमात्रं प्राधान्यतः सूत्रयन् अभिप्रायो भवति । यथा 'सुखविन्तः सम्प्रत्यस्तीत्यादि । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दनयो भवति यथा 'बभूत्र, भवति, भविष्यति सुमेरु : ' इत्यादि । पर्यायशब्देषु निरक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढनयः भवति यथा 'इन्दनादिन्द्रः, शकनाच्छकः पूर्वारणात पुरंदरः' इत्यादिषु । शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ' वाच्यत्वेनाभ्युपगच्छन् एवंभूतनयो भवति यथा इन्दनमनुभवन्निन्द्रः, शकन क्रिया परिणतः शक्रः, पूर्दारणप्रवृत्तः पुरंदरः इत्युच्यते 138
नयवादस्तु अनेकान्तात्मकवस्तुनः एकदेशांशप्रतिपादको भवति । अतः नयस्तु त्रिकलादेशः इत्युच्यते 1 34 याने कान्तात्मक वस्तुनः शेषधर्मानुपसर्जनीकृत्य एकन्यैव धर्मस्य प्राधान्येन वर्णनं विकलादेशः, नयदृष्टिरित्युच्यते । तदुक्तं - एकधर्मात्मकवस्तुविषयक बोधजनकत्वं विकलादेशत्वम् । 35
एकान्तवादिदर्शनान्यनेकान्तान्मकवस्तुनः एकैकधर्मस्यैव वर्णनं कुर्वन्तीति, सर्वेषामपि एकान्तवादिदर्शनानां विकला देशरूपे नयवादे समावेशो भवति । अतः सर्वाभिप्रायसंग्राहकाः नयाः इत्युच्यन्ते । तथा हि-न्यायवैशेषिकाः परस्परविशकलितौ सामान्य · विशेषाविच्छन्त्यतस्ते नैगमनयानुसारिणः; सांख्याः अद्वैतवेदान्तिनश्च विशेषं तिरस्कुर्वाणाः केवलं सामान्यं वाञ्छन्ति, अतस्ते संग्रहनयानुसारिणः इत्युच्यन्ते । चार्वाकास्तु नास्तिकाः प्रायः व्यवहारनयानुसारिणो भवन्ति । बौद्धाः क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, अतस्ते ऋजुसूत्रनयानुसारिणः । केचन रूढितः शब्दानां प्रवृत्ति वाञ्छन्ति, व्युत्पत्तितो ध्वनीनां प्रवृतिं वाञ्छन्त्यन्ये; वर्तमानकालभाविव्युत्पत्तिनिमित्त मधिकृत्य शब्दाः प्रवर्तन्तेत्यपरे एवं सर्वे मीमांसकवैयाकरणादयो शब्दसमभिस् दैवं भूतनयानुसारिणो भवन्ति 130
एतस्सर्वैः परदर्शनकारैः प्रदर्शिता विकल्पाः वस्तुतत्त्वविषये सापेक्षाः सन्तः परमार्थसत्यतां भजन्ते । निरपेक्षया त्वन्योन्येन निरस्यमानाः नयाभासाः दुर्नया: वेत्युच्यन्ते | 57
33. प्रमाणनयतत्वालोकालङ्कार - V11-37-41.
34. लघीयस्त्रय - श्रुतोपयोगपरिच्छेद-12.
231
35. प्रमाणनयतत्त्वा लोकालङ्कार -- IV - 44; सप्तभंगितरंगिणी पृ. 16.
36. बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां संग्रहात्
सांख्यानां ततएव नैगमनयाद् योगश्च वैशेषिकः ।
शब्दब्रह्मविदो शब्दनयतः सर्वैर्नयेर्गुम्फिता |
जैनीदृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ॥ -अध्यात्मसार - जिनमतस्तुति-6. 37. निरपेक्षा नया: मिथ्या सापेक्षा वस्तु तेऽर्थकृत् - आप्तमीमांसा -108.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org