Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 244
________________ अनेकान्तवादस्य स्वरूपम् 235 प्रतिपद्यन्ते । अस्यैवाने कान्तवादस्य स्याद्वादस्य वा सकलदर्शनसमन्वयात्मकरूपस्य स्वरूप - वर्णनं अमृतचंद्राचार्यैः परमरमणीयतया वर्ण्यते । यथा गोपी मन्थाननेत्रस्याकर्षण - शिथिलीकरण क्रियाद्वारेण दध्नः सारभूतं नवनीतं प्राप्नोति तद्वत् स्याद्वादोऽनेकान्त - वादो वा धर्माणां प्राधान्योपसर्जन भावेन वस्तुतत्त्वरूपममृतं गृह्णाति । तदुक्तं - एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्रमितरेण । अन्तेन जयति जैनीनीतिर्मन्थाननेत्रमिव गोपी " ॥ 88 01 59 जैनानामनेकान्तवादः बहुदोष दूषितोऽस्ति इति दर्शनान्तरधुरन्धराणामाक्षेपः । वस्तुनः सदसके, सत्वासत्वात्मके, नित्यानित्यात्म के, भिन्नाभिन्नात्मके स्वरूपे स्वीक्रियमाणे विरोव संशप्रपङ्करादिदोषाः सम्भवन्तीति बौद्धशंकर रामानुजाद्याचार्याः सम्मन्यन्ते । तथा हि-यदेव वस्तु सत् तत् कथमसद् भवेत् । यद्यसच्चेत् कथं सदिति विरोधः । वस्तु सद्वा असत् भवेत् । एक रेमन् वस्तुनि नोभयं सम्भवति । सत्वासत्वयोः शीतोष्णस्पर्शवन परस्परपरिहारेण स्थितिः दृश्यते ४०- धौव्येण उत्पादव्यययोः विरोधादेकस्मिन् धर्मिण्ययोगादित्यादि " वचनात् 180 संशयवादोऽयमनेकान्तवादो नामेति श्रोशंकराचार्यैः ब्रह्मसूत्रभाष्ये उद्घोष्यते । तथाहि - सत्वासत्वात्मके वस्तुनोऽ. भ्युपगम्यमाने सदिदं वस्त्रसद्वेत्यवधारणद्वारेण निर्णीतेरभावात् संशयः 'नैकस्मिन् संभवात् ' । न ह्येक रेमन् धर्मिणि युगपत् सदसत्वादि विरूद्धधर्मसमावेशः संभवति 'शीतोष्णवत्' इत्यादि । 01 अन्यच्चाने कान्तवादरवीकरणात् अनवस्थासंकरव्यतिकरादयोऽन्ये बहवो दोषाः समापतन्ति । येनांशेन सत्वमित्युच्यते किं तेनैव सत्वमाहोवित् तेनापि सत्वासत्वम् । यदि तेनांशेन सत्वं तदा, सर्वथा सदित्यङ्गीकाररूपैकान्तवादाभ्युपगमादने कान्तवादहानिर्भवति । यदि येनांशेन सत् तेनैत्र सदसदित्युच्यते तदा येनांशेन सत्वं तेन किं सत्यमेवाहोस्वित् तेनापि सत्त्वासत्त्वमित्यादिना 'अनवस्थादोषप्रसङ्गः । तथा च येन रूपेण सत्त्वं तेन सत्त्वमसत्त्वं च स्यादिति सङ्करः 'युगपदुभयप्राप्तिः सङ्करः' इति वचनात् । तथैव येन रूपेण सत्त्वं तेनासत्वमपि स्याद्, येन चासत्त्रं तेन सत्त्वमपि स्यादिति व्यतिकरः, परस्परविषयगमनं व्यतिकरः ' इति वचनात् । ०४ " 58. पुरुषार्थ सिध्युपाय - -q. 225. 59. यदा व्ययस्तदा सत्वं कथं तस्य प्रतीयते । पूर्व प्रतीते सत्वं स्यात् तदा तस्य व्ययः कथम् । ध्रौव्येऽपि यदि नास्मिन् धोः कथ सत्वं प्रतीयते । प्रतीतेरेव सर्वस्य तस्मात्सत्वं कुतोऽन्यथा । तस्मात् न नित्यानित्यस्य वस्तुनः संभवः कचित् ॥ - प्रमाणवार्तिकालङ्कार - पृ. 142. 60. हेतु विन्दुटीका – 146. 61. ब्रह्मसूत्र शांकरभाष्य - II - II - 23. 62. षड्दर्शन समुच्चयटीका - पृ. 357. Jain Education International For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302