Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 242
________________ अनेकान्तवादस्य स्वरूपम् 233 अकलङ्कदेवैः विचारोऽयं विशदीकृतोऽस्त्येवं - 'स्याज्जीवः' इत्युक्तेऽनेकान्तविषयः स्याछब्दः । 'स्यादस्त्येव जीवः' इत्युक्ते एकान्ततिषयः स्याच्छब्दः' इति । वस्तुन्येक स्मन्ननेके धर्माः भवन्ति, शब्दैः युगपदेव सकलधर्माणां प्रतिपादनमशक्यमेव । अतः एव सप्तनयानां समन्वयरूपात्मकं सप्त भङ्गीनयं नाम न्यायं योजयितव्यमिति जनानां मतम । एकस्मिन्नेव वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गीत्युच्यते । तदुक्तं, 'स्यादस्ति स्यान्नास्ति उभयमवक्तव्यं चेति पुनश्च त्रितयम् । दव्यं खलु सप्तभङ्गमादेशवशेन सम्भवति' । विचारस्यास्यैव विस्तरेण विवरणं प्रमाणनयतत्त्वालोकालङ्कारे तट्टीकायां रत्नाकरावतारिकायां च दरीदृश्यते । तथाहि-एकत्र जीवादी वस्तुन्यकैकसत्त्वादि धर्मविषयप्रश्नवशादविरोधेन प्रतिपक्षादिबाधा परिहारेण पृथग्भूयो समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो सप्तभिः प्रकारैः वचनविन्यासः सप्तभङ्गीति विज्ञेयः"180 तद्यथा1 (१) 'स्यादस्त्येव घटः' इति विधिकल्पनाया प्रथमो भङ्गः । (२) 'स्यान्नास्त्येव घटः' इति प्रतिषेधकल्पनया द्वितीयो भङ्गः । (३) 'स्यादस्त्येव स्यान्नास्त्येव च घटः' क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः । (४) 'स्यादवक्तव्यः एव' इति युगपत् विधिनिषेधकल्पनया चतुर्थो भंगः । (५) स्थादस्त्येव, स्यादवक्तव्यः एवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया पञ्चमः । (६) स्यान्नास्त्येव स्यादवक्तव्य एवेति निषेधकल्पनया युगपत् विधिनिषेध. कल्पनया च षष्ठः । (६) स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यश्चैवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमो भङ्गः । 47. लघीयस्त्रय, ष्ट. 85. 48, राजबार्तिक-1-6. 49. (a) चास्तिकाय समयसार. (b) आप्तमीमांसा-14-15. 50. प्रमाणनयतत्त्वालोकालङ्कार-IV-14. 51. (a) आप्तमीमांसाटीका-14, 15, 16. (b) प्रमाणनयतत्वालोकालङ्कार-IV. (c) स्याद्वादमंजरी-209-212. T-30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302