Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 252
________________ नैषधं विद्वदौषधम 243 यहशनाद्विभाली तां मुक्तिकामाकलितां प्रतीमः' । अन्यच्च तदत्यन्तविमोक्षोऽपवर्ग.39 इत्यादिना मोक्षावस्थायां सुखदुःखाभावः इति न्यायवैशेषिकाः सम्मन्यन्ते । न्यायवैशेषिकाणां मोक्षावस्थातु पाषाणवद् वर्ततेति तत्प्राप्तु न कोऽपि यतेत इति दर्शनान्तरकाराणां मतम् ।३० वेदान्तानुयायी श्रीहर्षस्तु न्यायवैशेषिकाणां मोक्षविषयकमतमुपहसन्निव चार्वाकमुखेन स्वाभिप्रायं प्रकटीकरोति 'मुलये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतम तमवेक्ष्यैव यथावित्श तथैव स: 81 इत्यादिना । श्लोकेऽस्मिन् मोक्षो पाषाणवज्जड इति मन्यमानः गौतमस्तु गोतमः (गोषुतमः), महान् बलीवदः एवेति मन्यतामित्युपहसति । 'द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः'52 इति वदन्तो तमस्वभावरूपमिति मन्यन्ते न्यायवैशेषिकाः । वेदान्तिनो कुमारिलमतानुयायिनी मीमांसकाश्च तमस्तु द्रव्यमिति, प्रभाकरास्तु 'रूपदर्शनाभावस्तमः' 55 इति, केचिदन्ये 'आलोकज्ञानाभावस्तमः' इति मन्यन्ते । परमेतदाश्चर्यमावहति यत् वेदान्तानुयायी श्रीहर्षस्तु न्यायवैशेषिकाभिमतं तमः स्वरूपमेव समभिमन्यतेति 'ध्वान्तस्य वामोरु ! विचारणायां वैशेषिकं चारुमतं मतं मे । औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्वनिरूपणाय '56 इत्यनेन इलोकेन सुस्पष्टं भवति । अन्यच्च न्यायादिदर्शनशास्त्रेषु यत्कृतकं तदनित्यं, यथा घटः', 'घटाभाववभूतलं', 'यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत', इत्यादिभिर्वचनैः घटदृष्टान्तो सुप्रथित एव । विषयमेवामुमतीव चारुतया कल्पनापाटवेन च कविवर्णयति यथा 'एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् । तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धजन्माजनि कुम्भकारः ॥3॥ इति । दमयन्त्याः सौन्दयाधिक्यं वर्णयन् कविरत्र कथयति यत् परमरमण्याः दमयन्त्याः कुचस्पतिया घटः न केवलं ख्याति सम्प्राप्य दर्शनेषु निदर्शनत्वमाप अपि तु मृद्भाण्डनिर्मातापि दनयन्याः कुवर्थिकुम्भ निर्माणेन कुम्भकार इति प्रसिद्धि प्राप इति । 28. नै.-x-81. 29. (a) न्यायसूत्र-1 1-223 (b) न्यायमजरी--पृ. 508. 30. (a) अत एव त्वदुहास: धूयते--- दर वृन्दावने रम्ये कष्ट्रत्वमभिवाछितम् । न तु वैशेषिकी मुक्ति गौतमो गन्तुमिच्छति'-उद्याऽयं स्याद्वादमा महिणेन-पृ. 63. (b) आत्यन्तिकदु:खनिवृत्तिलक्षणो पाषाण पदृशो मोक्षो भवतीति वैशेषिकमतम्-प्राञ्चहृदय ___ --षड्वर्गप्रकरण-पृ. 65. 31. ने.-XVII 75. 32. वैशेषिकसूत्रम् -V II 19. 33. (a) विवरण प्रमेयसंग्रह:--पृ. 10. (b) सर्वमतसंग्रहः-पृ. 31. 34. सर्वदर्शनसंग्रह . 35. नै.--XXII-30 36. ने.-VII-75. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302