________________
नैषधं विद्वदौषधम
243
यहशनाद्विभाली तां मुक्तिकामाकलितां प्रतीमः' । अन्यच्च तदत्यन्तविमोक्षोऽपवर्ग.39 इत्यादिना मोक्षावस्थायां सुखदुःखाभावः इति न्यायवैशेषिकाः सम्मन्यन्ते । न्यायवैशेषिकाणां मोक्षावस्थातु पाषाणवद् वर्ततेति तत्प्राप्तु न कोऽपि यतेत इति दर्शनान्तरकाराणां मतम् ।३० वेदान्तानुयायी श्रीहर्षस्तु न्यायवैशेषिकाणां मोक्षविषयकमतमुपहसन्निव चार्वाकमुखेन स्वाभिप्रायं प्रकटीकरोति 'मुलये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतम तमवेक्ष्यैव यथावित्श तथैव स: 81 इत्यादिना । श्लोकेऽस्मिन् मोक्षो पाषाणवज्जड इति मन्यमानः गौतमस्तु गोतमः (गोषुतमः), महान् बलीवदः एवेति मन्यतामित्युपहसति । 'द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः'52 इति वदन्तो तमस्वभावरूपमिति मन्यन्ते न्यायवैशेषिकाः । वेदान्तिनो कुमारिलमतानुयायिनी मीमांसकाश्च तमस्तु द्रव्यमिति, प्रभाकरास्तु 'रूपदर्शनाभावस्तमः' 55 इति, केचिदन्ये 'आलोकज्ञानाभावस्तमः' इति मन्यन्ते । परमेतदाश्चर्यमावहति यत् वेदान्तानुयायी श्रीहर्षस्तु न्यायवैशेषिकाभिमतं तमः स्वरूपमेव समभिमन्यतेति 'ध्वान्तस्य वामोरु ! विचारणायां वैशेषिकं चारुमतं मतं मे । औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्वनिरूपणाय '56 इत्यनेन इलोकेन सुस्पष्टं भवति । अन्यच्च न्यायादिदर्शनशास्त्रेषु यत्कृतकं तदनित्यं, यथा घटः', 'घटाभाववभूतलं', 'यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत', इत्यादिभिर्वचनैः घटदृष्टान्तो सुप्रथित एव । विषयमेवामुमतीव चारुतया कल्पनापाटवेन च कविवर्णयति यथा
'एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धजन्माजनि कुम्भकारः ॥3॥ इति । दमयन्त्याः सौन्दयाधिक्यं वर्णयन् कविरत्र कथयति यत् परमरमण्याः दमयन्त्याः कुचस्पतिया घटः न केवलं ख्याति सम्प्राप्य दर्शनेषु निदर्शनत्वमाप अपि तु मृद्भाण्डनिर्मातापि दनयन्याः कुवर्थिकुम्भ निर्माणेन कुम्भकार इति प्रसिद्धि प्राप इति ।
28. नै.-x-81. 29. (a) न्यायसूत्र-1 1-223
(b) न्यायमजरी--पृ. 508. 30. (a) अत एव त्वदुहास: धूयते--- दर वृन्दावने रम्ये कष्ट्रत्वमभिवाछितम् । न तु वैशेषिकी
मुक्ति गौतमो गन्तुमिच्छति'-उद्याऽयं स्याद्वादमा महिणेन-पृ. 63. (b) आत्यन्तिकदु:खनिवृत्तिलक्षणो पाषाण पदृशो मोक्षो भवतीति वैशेषिकमतम्-प्राञ्चहृदय
___ --षड्वर्गप्रकरण-पृ. 65. 31. ने.-XVII 75. 32. वैशेषिकसूत्रम् -V II 19. 33. (a) विवरण प्रमेयसंग्रह:--पृ. 10. (b) सर्वमतसंग्रहः-पृ. 31. 34. सर्वदर्शनसंग्रह . 35. नै.--XXII-30 36. ने.-VII-75.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org