SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 242 Traverses on less trodden path... विषयमधिकृत्य परः शतानि उदाहरणानि प्रदर्शयितुं शक्यन्ते । अतः अङ्गुलिनिर्देशेन प्रयतामहे प्रदर्शयितुं नैश्यस्य विद्वदौषधत्वं विद्वज्जनबुद्धिवर्धकगुणत्वं वा ।। । सूक्ष्मेक्षिकया नैषधाध्ययनेनेदं सुस्पष्टं भवति यदव्युत्पन्नमतः नैषधे प्रवेशमेव नाहतीति । स्वकीयमेवागाधपाण्डित्यं वशीकृतवाग्देवीकत्वञ्च दिदयिषुरिव दशमे सर्गे दमयन्तीस्वयंवरे समवेतानां भूपतीनां परिचयं दातुमाहूतायाः सरस्वत्याः स्वरूपं-'मध्ये सभं सावततारबाला गान्धर्वविद्याधरकण्ठ नाला । त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वत्तितहक्तरङ्गा' इत्यादिभिः पञ्चदशश्लोकै. वर्णयामास । सरस्वत्याः स्वरूपवर्णनं संक्षेपतोऽधो निर्दिष्टरूपेण कृतं दृश्यते कविना-तस्याः सरस्वत्याः गान्धर्वविद्या एव कण्ठनालः, ऋग्यजुःसामवेदाः वलित्रयं, महाकाव्यनाटकचम्पूप्रभृतयो कटाक्षविक्षेपाः, अथर्ववेदो उदररोमावली, शिक्षाशास्त्रमेव चारित्रं, कल्पोऽलङ्कारः, निरुक्तविद्या समरतार्थनिर्वचनस्वरूपः, मात्रावृत्तवर्णवृत्तेन भिद्यमानं छन्दः भुजद्वन्द्वं, व्याकरणशास्त्रं मेखला, ज्योतिःशास्त्रं कण्ठहारः, पूर्वपक्षोत्तरपक्षी ओष्ठद्वयं, पूर्वोत्तरमीमांसे ऊरुयुगलं, तर्कशास्त्रं दन्तपंक्तिः, पुराणोपपुराणा दकं कर युगलं, धर्मशास्त्रमेव मूर्धा, सोमसिद्धान्तनामककापालिकदर्शनमाननं, माध्यमिकमतमुदर, विज्ञानवादमेव चित्तं, साकारविज्ञानवादिसौत्रान्तिकदर्शनमेवाखिलं स्वरूपञ्चासीत् । तीव्रतरबुद्धिवैभवोऽयं श्रीहर्ष सरस्वतीस्वरूपवर्णनव्यानानेन स्वकाव्येऽन्त तान् विविधविषयान् ज्ञापयित्वा विनैवेतेषां ज्ञानं न शक्यते काव्यमिद - मवगन्तुमिति प्रदर्शयति । काव्यमिदं चतुर्दशविद्यारङ्गतैः काश्मीरविद्वद्भिः स्ववैशिष्ट्येन समाहतमा सोदिति 'काश्मीरैम हते चतुर्दशतयीं विद्यां विद्वभिमहाकाव्ये' इत्यादिना कवेरुक्त्या एव सुस्पष्टं भवति । वेदवेदाङ्गादीनां विविधशास्त्राणाञ्च सारोऽत्र कविना निवेशितो दृश्यते, पर तत्सकलं वर्ण यतुं सविस्तरेण न शक्यतेति सम्प्रति न्यायः वैशेषिकसाङ्ख्ययोगमोमांसावेदान्ता देदर्शनानां सिद्धान्तान् प्रतिपादितान काव्येऽस्मिन् संक्षेपतो निर्दिश्यान्यान् विषयान् दिङ्मात्रमुदाहरिष्यामः । ___ न्यायवैशेषिकाशनसिद्धान्तानामुल्लेखः बाहुल्येन कृतो दृश्यते कविनानेन तर्कविद्यापारावारीणेन । न्यायशास्र प्रमाणप्रमेयादि षोडशपदार्थानां तत्त्वज्ञानात् निःश्रेयससिद्धिर्भवतीति यदुक्तं, ज्ञानप्राप्तेश्चोद्देशो तल्लक्षणनिर्देशो यत्कृतो दृश्यते तत्प्रतिपादनं चकार कविः सरस्वत्याः षोडश-षोडशदलसमवेतं दन्तपङ्क्तिद्वयमेव षोडशपदार्थानामभिधानरूपमुद्देशं तत्रोपदिष्टानाञ्च तत्त्वानां व्यवच्छेदकधर्मरूपलक्षणमभिव्यन कीत्युक्त्वा यथा-'उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थः । आन्वीक्षकों 23. न.--x. 24. नै.-x-73-87. 25. नै.-XVI-131. 26 प्रमाण-प्रमेय -संशय-प्रयोजन-दृष्टान्त सिद्धान्त - अवयत्र-तर्क-निर्णय वाद-जल्प - वितण्डा हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः-न्यायसूत्र-I-I-I. 27. तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः । तबोद्दिष्टस्य तत्त्वव्यवच्छेदको धर्मो लक्षणम् - न्यायसूत्रभाष्य-I-1-3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy