________________
244
Traverses on less trodden path... दमयन्याः कुवोदय गनव्याने नात्र कवि. न्यायादिदशनेषु सुप्रसिद्धं घटदृष्टान्तमेव प्रदर्शयति । एवमेव बहुषु स्थलेषु न्यायवैशेषिकाभिमतं कार्यकारणसिद्धान्तं', मनोद्रव्यस्य स्वरूपं, विधोत्पत्तिविनाशकपसिद्धान्तञ्चाविष्कृतमनेन30 कविना पश्यामः ।
सांख्यास्तु कारणे एव कार्यमव्यक्तरूपेण वर्ततेति मन्यमानाः 'असदकरणादुपादानप्रणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य'4 ° इति वदन्तो सत्कार्यवादमनुमन्यन्ते । श्रोहर्षोऽपि सांख्यानाममुं सिद्धान्तं 'नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः 1 इत्यादिना प्रदर्शयति । एवमेव योगदर्शने पतञ्जलिना प्रतिपादितं सम्प्रज्ञातासम्प्रज्ञातसमाधिद्वयं स्त्रीयानुभव द्वारेण 'इत्युदीर्य स हरि प्रति सम्प्रज्ञातवासिततमः 4 " समपादि', 'यः साक्षात्कुरुते समाधिषु परं ब्रह्मप्रमोदार्णवं 5. इत्यादिना वर्णयति । तत्र तत्र कृतयोगरहस्यवर्णनेनायं महान सिद्धयोगी आसीदिति ज्ञातुं शक्यते। योगविभूतिवर्णनप्रसङ्गे पतञ्जलिनोक्तं यसिद्धयोगी परकायप्रवेशमपि की प्रभवतीति, 'बन्ध कारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः' इत्यनेन सूत्रेण । एतामेव योगविभूति वर्णयितुमिच्छन् श्रीहर्ष: दमयन्त्याः शुद्धान्तेऽदृश्यरूपेण सञ्चरमाणे नले उत्प्रेक्षते यथा
__'भदन्नदृश्यः प्रतिबिंबदेहव्यूह वितन्वन्मणिकुट्टिमेषु । पुरं परस्य प्रविशन्त्रियोगी योगीव चित्रं स रराज राजा' । एवमेव स्वयंवरसभायां नलपञ्चकर्माक्षसास्कृत्य दमयन्ती योगविभूतेरस्याः उल्लेखं करोति यथा---'किं वा तनोति मयि नैषध एव कायव्यूह विहाय परिहासमसौ विलासी । विज्ञानवैभवमृतः किमुतस्य विद्या सा विद्यते न तुरगाशयवेदितेव' ।
'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । न हि स्वतोऽसतीशक्तिः कर्तुमन्येन शक्यते ५० इत्यादिना || स्वतःप्रामाण्यवादमुररीकुर्वतां मीमांसकानां मतमिदं नलेन हंसं प्रत्युक्तेन वचसा 'स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता'47 इत्यदिना प्रदर्शयति ।
ईश्वरास्तित्वविषये न्यायवैशेषिकमीमांसकयोर्मध्मे महान् विवादो दरीदृश्यते । न्यायवैशेषिकास्तु सेश्वरवादिनो ईश्वरं सृष्टिकर्तारं, सर्वज्ञ, कर्मफलाध्यक्षं, वेदरचयितारं च मन्यते । मोमांसकास्तु निरीश्वरवादिनो जगतोऽनादिमत्वं नित्यत्कच स्वीकुर्वाणाः, वेदस्यापौरुषेयत्वं च मन्याना ईश्वरस्य जगत्कर्तृत्वं वेदकर्तृकत्वं वा नानुमन्यन्ते । 37. नै.-IV-3.
44. नै -VI-46. 38. नै.-1-59; III-37.
45. नै.--XIII-48. 39. गै,-III-125.
46. श्लोकवार्तिकम् -11-47. 40. सांख्यकारिका-9.
47. नै.--II-61 41. न.--94.
48. न्यायकुसुमान्जलि:-v 42. नै.---XXI-119
49 श्लोकवार्तिकम् 43. न.-XX[[- सन्तश्लोकः-4.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org