Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 253
________________ 244 Traverses on less trodden path... दमयन्याः कुवोदय गनव्याने नात्र कवि. न्यायादिदशनेषु सुप्रसिद्धं घटदृष्टान्तमेव प्रदर्शयति । एवमेव बहुषु स्थलेषु न्यायवैशेषिकाभिमतं कार्यकारणसिद्धान्तं', मनोद्रव्यस्य स्वरूपं, विधोत्पत्तिविनाशकपसिद्धान्तञ्चाविष्कृतमनेन30 कविना पश्यामः । सांख्यास्तु कारणे एव कार्यमव्यक्तरूपेण वर्ततेति मन्यमानाः 'असदकरणादुपादानप्रणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य'4 ° इति वदन्तो सत्कार्यवादमनुमन्यन्ते । श्रोहर्षोऽपि सांख्यानाममुं सिद्धान्तं 'नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः 1 इत्यादिना प्रदर्शयति । एवमेव योगदर्शने पतञ्जलिना प्रतिपादितं सम्प्रज्ञातासम्प्रज्ञातसमाधिद्वयं स्त्रीयानुभव द्वारेण 'इत्युदीर्य स हरि प्रति सम्प्रज्ञातवासिततमः 4 " समपादि', 'यः साक्षात्कुरुते समाधिषु परं ब्रह्मप्रमोदार्णवं 5. इत्यादिना वर्णयति । तत्र तत्र कृतयोगरहस्यवर्णनेनायं महान सिद्धयोगी आसीदिति ज्ञातुं शक्यते। योगविभूतिवर्णनप्रसङ्गे पतञ्जलिनोक्तं यसिद्धयोगी परकायप्रवेशमपि की प्रभवतीति, 'बन्ध कारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः' इत्यनेन सूत्रेण । एतामेव योगविभूति वर्णयितुमिच्छन् श्रीहर्ष: दमयन्त्याः शुद्धान्तेऽदृश्यरूपेण सञ्चरमाणे नले उत्प्रेक्षते यथा __'भदन्नदृश्यः प्रतिबिंबदेहव्यूह वितन्वन्मणिकुट्टिमेषु । पुरं परस्य प्रविशन्त्रियोगी योगीव चित्रं स रराज राजा' । एवमेव स्वयंवरसभायां नलपञ्चकर्माक्षसास्कृत्य दमयन्ती योगविभूतेरस्याः उल्लेखं करोति यथा---'किं वा तनोति मयि नैषध एव कायव्यूह विहाय परिहासमसौ विलासी । विज्ञानवैभवमृतः किमुतस्य विद्या सा विद्यते न तुरगाशयवेदितेव' । 'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । न हि स्वतोऽसतीशक्तिः कर्तुमन्येन शक्यते ५० इत्यादिना || स्वतःप्रामाण्यवादमुररीकुर्वतां मीमांसकानां मतमिदं नलेन हंसं प्रत्युक्तेन वचसा 'स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता'47 इत्यदिना प्रदर्शयति । ईश्वरास्तित्वविषये न्यायवैशेषिकमीमांसकयोर्मध्मे महान् विवादो दरीदृश्यते । न्यायवैशेषिकास्तु सेश्वरवादिनो ईश्वरं सृष्टिकर्तारं, सर्वज्ञ, कर्मफलाध्यक्षं, वेदरचयितारं च मन्यते । मोमांसकास्तु निरीश्वरवादिनो जगतोऽनादिमत्वं नित्यत्कच स्वीकुर्वाणाः, वेदस्यापौरुषेयत्वं च मन्याना ईश्वरस्य जगत्कर्तृत्वं वेदकर्तृकत्वं वा नानुमन्यन्ते । 37. नै.-IV-3. 44. नै -VI-46. 38. नै.-1-59; III-37. 45. नै.--XIII-48. 39. गै,-III-125. 46. श्लोकवार्तिकम् -11-47. 40. सांख्यकारिका-9. 47. नै.--II-61 41. न.--94. 48. न्यायकुसुमान्जलि:-v 42. नै.---XXI-119 49 श्लोकवार्तिकम् 43. न.-XX[[- सन्तश्लोकः-4. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302