Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
________________
254
Traverses on less trodden path...
सर्वशं मन्यते । एते सर्वज्ञपदभाजोऽपि परस्परं विवदन्ते । मतस्यैकस्य सर्वज्ञस्य वचनं मतान्तरस्य सर्वज्ञस्य वचनाद्भिन्नं भवति । अतः कं सर्वमित्युररोकर्तव्यं, कस्य वचनं मतं वा प्रमाणमित्यङ्गोकर्तव्यम् । यदि बुद्धो महावीरो वा सर्वज्ञः इति स्वीक्रियते चेत् तदा कपिलऋषिणा गौतमेन वा किमपराद्धमिति पृष्टव्यं भवेत् । यदि सर्वेऽप्येते सर्वज्ञपदभाजो भवितुमर्हन्तीत्युच्यते चेत्तहि तेषु परस्परं मतभेदः कथं दरोदृश्यते । अत एवोक्तं दृश्यते यत्
" सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा।
तावुभौ यदि सर्वज्ञो मतभेदः कथं तयोः ।
अतः परस्परविवदमानानां वचनं प्रमाणभूतं न भवितुमर्हति । अतः चार्वाकाः सङ्गिरन्ते यत् प्रत्यक्षमेवैकं प्रमाण', प्रत्यक्षप्रसिद्धपृथिव्यादि तत्त्वोपदेशात् गुरु बृहस्पतिरेवाप्त , तस्यैवाप्तस्य वाक्यं प्रमाणम् । यतो हि बृहस्पतिना प्रत्यक्षसिद्धान्येव 'पृथिव्यप्तेजोवायवः' इति चत्वार्येव तत्त्वानि प्रतिपादितानि । तेभ्यः भूतचतुष्टयेभ्यः पृथिव्यादिभ्यः कायाकारपरिणतेभ्यः तदात्मकं चैतन्यमुत्पद्यते यथा पिष्टोदकगुडघातकी संयोगात् मदशक्तिरुत्पद्यते यथा वा स्नायुलाबूदण्डाष्ठागुलिप्रयत्नात् श्रवणरमणीय. कणितमुत्पद्यते' तद्वत् । तच्च शरीरादभिन्न चैतन्यमेव गर्भादिमरणपर्यन्नं 'जीवः' 'आत्मा' वेत्यादिव्यपदेशभाग्भवति । देहातिरिक्तो आत्मा नास्ति । गर्भात पूर्वकाले मरणादुत्तरकाले च तच्चैतन्याभावः इति मन्तव्यम् । अनेन पुनर्जन्ममोक्षादिसिद्धान्ताः पौरुषबुद्धिहीनानां प्रलापाः इत्येव सिद्धं भवति । प्रत्यक्षप्रमाणागोचरत्वात् परलोकिनः परलोकस्यापि चाभावो वर्तते । परलोकाभावेऽपि केचन मूर्ख शिरोमणयः परलोकसुख प्राप्त्यर्थ ऐहिक सुखविमुखाः तपश्चरणोपवासादिक्रियया शरीरार्थव्ययविधानेन बहुधा मुधावत् क्लेशमश्नुवते । इहलोक सुख न कदापि त्याज्यमगोचरपरलोकसुखप्राप्तये । अत एवोच्चते धीमद्भिर्यत् ' यावजीवेत् सुखं जीवेत् नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः' इनि ।
परन्तु चार्वाकाः एतद् विस्मरन्ति यत् 'प्रत्यक्षमेवकं प्रमागं' इति प्रतिपादनमप्यनुमानप्रभाणमेवावलम्ब्यावतिष्ठते । यतो हि-चार्वाकः स्वसिद्धान्तस्थापनाय काश्चन युक्तयः प्रदर्शनीयाः भवन्ति याभिस्तैः प्रतिपाद्यमानप्रत्यक्षप्रामाणिकता सिध्येत । यदि चार्वाकाः युक्त्या प्रत्यक्षप्रमोणतां साधयन्ति चेत् 'साधनात्साध्यविज्ञानं' इत्यनुमानप्रमाणेनैव प्रत्यक्षमेवैकं प्रमाणमिति मतस्य मूलोच्छेदो भवति । आचार्यः विद्यानन्दिभिः
3 तत्वसङ्ग्रह - श्लोक 3149. 4 सत्यशासनपरीक्षा, पृ. 15. 5 तत्रैव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302