Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 264
________________ चार्वाकमतखण्डनम् 255 अष्ट महव्यां चार्वाकमतस्य दौर्बल्यं प्रादर्शि सुचारुतया यथा--' प्रत्यक्षं प्रमाण, अविवादित्वात् , अनुमानादिकमप्रमाणं विसंवादित्वान इति लक्षयतोऽनुमानस्य बलात् व्यवस्थितेः न प्रत्यक्षमेवैकं प्रमाणमिति व्यवतिष्ठते । अनेन तेषां प्रत्यक्षप्रमागागोचरत्वात् आत्म-परलोकादि निरासरूपः प्रजल्पोऽपि निरस्तो भवति' । चार्वाकोऽस्माभिः प्रष्टव्योऽस्ति यत्कथं प्रत्यक्षमपि प्रमाणत्वेनाङ्गीकृतम । प्रत्यक्षस्यापि प्रमाण मन्ततो गत्वा विचार्यमाणे चार्वाकेण स्वीकतुं न शक्येत । तच्चा कोऽपि निराकुर्वाणो अनुमानादिप्रामाण्यं न जानाति । यतः लौकिकप्रत्यक्ष इन्द्रियार्थसन्निकर्षजन्यं भवति । तत्तद्विषयेण वस्तुना सह वा यदि इन्द्रिय सम्बन्धो न भवति चेत् वस्तुज्ञानमसम्भवमेव । तत् चार्वाके गाप्यङ्गीक्रियते । लौकिकप्रत्यक्षेऽत्र यदिन्द्रियार्थसन्निकर्ष भवति तत्र इन्द्रियपदार्थः कः ?, इत्यस्मिन् विषये विचार्यमाणे चाक्षुषप्रत्यक्ष कारणीभूतस्य स्वचक्षुषः प्रत्यक्षं न केनापि क्तुं शकयते । स्वचक्षषोऽत्र प्रत्यक्षं न भवति, अत एव चार्वाकमते चाक्षषप्रत्यक्षमपि मास्तु इति आपत्तिः । तथा चक्षुर्वाऽन्ये प्रत्यक्षघटकाः पदार्थाः इन्द्रियग्राह्याः इत्यपि वकतुं न शक्यते । सत्यपि ग्रहणेन्द्रिये मृतशरीरादौ वा कुत्रचित् प्राणभूतशरीरेऽपि गन्धग्रहणं न भवति । अत एव दृश्यं यदिन्द्रियं तत्तु वस्तुतः इन्द्रियं नास्त्येव, इन्द्रियद्वारमेव तत् । अतः द्वारा सूक्ष्म किमप्यिन्द्रियं चेतनसहकृतं वर्तत इति तु अभ्युपगन्तव्यमेव । तस्येन्द्रियस्यापि प्रत्यक्षं न भवति, अतःप्रत्यक्षस्यापि सिद्धिर्न भवेत् । अतः प्रत्यक्षमेकं प्रमाणमिति चार्वाकवचनं न चारु । अत एवोक्तं दृश्यतेऽभिः 'चार्वाकस्य न वाक् चार्वी कुर्वीदात्मवधं यथा । आक्षकमानता वाक् किं रक्षेदात्मप्रमाणताम' ।। इति । अन्यच्च, प्रत्यक्षप्रमाणागोचरत्वात् देहेन्द्रियभिन्नो स्वतन्त्रः आत्मा नास्तीति कथनमपि. प्रत्यक्षप्रमाणविरुद्धमेव । सुखदुःखहर्षविषादाद्यनेकपरिणामात्मकस्यात्मतत्त्वस्य स्वसंवेदन प्रत्यक्षेग निर्बाधमनुभवात हेतुभिर्विनैव अस्तित्वस्य सिद्धेः । अतः स्वसंवेदनप्रत्यक्षलक्ष्यात्मा ! 'ज्ञानवानह', 'इच्छावानह', इत्यादिषु शरीरातिरिक्तो कश्चि देतस्यालम्ब. नभूतो ज्ञानवानर्थोऽभ्युपगन्तव्यः, तस्यैव ज्ञातृत्वोपत्तेः, सः जीव एवेति सिद्धः । चेतनायोगेन सचेतनत्वात् शरीरस्यैवाहं प्रत्ययः इत्यपि चार्वाककथनं प्रलापमात्र, यतः परःपहस्रप्रदीपप्रभायोगेऽपि स्वयंप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दृष्टम् किन्तु प्रदोपस्यैव । एवं चेतनायोगेऽपि स्वयमचेतनस्य देहस्य न ज्ञातृत्वं किन्त्वात्मनः एवेति 7 अष्टसहस्री. 8 सत्यशासनपरीक्षा, पृ. 16. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302