________________
चार्वाकमतखण्डनम्
255
अष्ट महव्यां चार्वाकमतस्य दौर्बल्यं प्रादर्शि सुचारुतया यथा--' प्रत्यक्षं प्रमाण, अविवादित्वात् , अनुमानादिकमप्रमाणं विसंवादित्वान इति लक्षयतोऽनुमानस्य बलात् व्यवस्थितेः न प्रत्यक्षमेवैकं प्रमाणमिति व्यवतिष्ठते । अनेन तेषां प्रत्यक्षप्रमागागोचरत्वात् आत्म-परलोकादि निरासरूपः प्रजल्पोऽपि निरस्तो भवति' ।
चार्वाकोऽस्माभिः प्रष्टव्योऽस्ति यत्कथं प्रत्यक्षमपि प्रमाणत्वेनाङ्गीकृतम । प्रत्यक्षस्यापि प्रमाण मन्ततो गत्वा विचार्यमाणे चार्वाकेण स्वीकतुं न शक्येत । तच्चा कोऽपि निराकुर्वाणो अनुमानादिप्रामाण्यं न जानाति । यतः लौकिकप्रत्यक्ष इन्द्रियार्थसन्निकर्षजन्यं भवति । तत्तद्विषयेण वस्तुना सह वा यदि इन्द्रिय सम्बन्धो न भवति चेत् वस्तुज्ञानमसम्भवमेव । तत् चार्वाके गाप्यङ्गीक्रियते । लौकिकप्रत्यक्षेऽत्र यदिन्द्रियार्थसन्निकर्ष भवति तत्र इन्द्रियपदार्थः कः ?, इत्यस्मिन् विषये विचार्यमाणे चाक्षुषप्रत्यक्ष कारणीभूतस्य स्वचक्षुषः प्रत्यक्षं न केनापि क्तुं शकयते । स्वचक्षषोऽत्र प्रत्यक्षं न भवति, अत एव चार्वाकमते चाक्षषप्रत्यक्षमपि मास्तु इति आपत्तिः । तथा चक्षुर्वाऽन्ये प्रत्यक्षघटकाः पदार्थाः इन्द्रियग्राह्याः इत्यपि वकतुं न शक्यते । सत्यपि ग्रहणेन्द्रिये मृतशरीरादौ वा कुत्रचित् प्राणभूतशरीरेऽपि गन्धग्रहणं न भवति । अत एव दृश्यं यदिन्द्रियं तत्तु वस्तुतः इन्द्रियं नास्त्येव, इन्द्रियद्वारमेव तत् । अतः द्वारा सूक्ष्म किमप्यिन्द्रियं चेतनसहकृतं वर्तत इति तु अभ्युपगन्तव्यमेव । तस्येन्द्रियस्यापि प्रत्यक्षं न भवति, अतःप्रत्यक्षस्यापि सिद्धिर्न भवेत् । अतः प्रत्यक्षमेकं प्रमाणमिति चार्वाकवचनं न चारु । अत एवोक्तं दृश्यतेऽभिः
'चार्वाकस्य न वाक् चार्वी कुर्वीदात्मवधं यथा ।
आक्षकमानता वाक् किं रक्षेदात्मप्रमाणताम' ।। इति । अन्यच्च, प्रत्यक्षप्रमाणागोचरत्वात् देहेन्द्रियभिन्नो स्वतन्त्रः आत्मा नास्तीति कथनमपि. प्रत्यक्षप्रमाणविरुद्धमेव । सुखदुःखहर्षविषादाद्यनेकपरिणामात्मकस्यात्मतत्त्वस्य स्वसंवेदन प्रत्यक्षेग निर्बाधमनुभवात हेतुभिर्विनैव अस्तित्वस्य सिद्धेः । अतः स्वसंवेदनप्रत्यक्षलक्ष्यात्मा ! 'ज्ञानवानह', 'इच्छावानह', इत्यादिषु शरीरातिरिक्तो कश्चि देतस्यालम्ब. नभूतो ज्ञानवानर्थोऽभ्युपगन्तव्यः, तस्यैव ज्ञातृत्वोपत्तेः, सः जीव एवेति सिद्धः । चेतनायोगेन सचेतनत्वात् शरीरस्यैवाहं प्रत्ययः इत्यपि चार्वाककथनं प्रलापमात्र, यतः परःपहस्रप्रदीपप्रभायोगेऽपि स्वयंप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दृष्टम् किन्तु प्रदोपस्यैव । एवं चेतनायोगेऽपि स्वयमचेतनस्य देहस्य न ज्ञातृत्वं किन्त्वात्मनः एवेति
7
अष्टसहस्री.
8 सत्यशासनपरीक्षा, पृ. 16.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org