________________
256
Traverses on less trodden path...
तस्यैव चाहं प्रत्ययोत्पाद। अतः प्रत्यक्षमिनस्यार्थस्यात्मनोरस्तित्वं साधयितुमनु. मानस्याप्यावश्यकता नास्ति । करकामक्षिसात्कर्तु दर्पणस्यावश्यकता नास्त्येव । अतः एवोच्यते-- " न हि दर्पण. आदेयः कर कङ्कणदर्शनाय बुधैः 10 इति। अतः इदं सुस्पष्टं यत् चार्वाकाभिमतप्रत्यक्षप्रमाणेनेत्र देहातिरिक्तात्मनोऽस्तित्वं सिध्यति ।
अन्यच्च, स्वसंवेदनमात्मनो निशकतु चार्वाकर्न शकयते । ज्ञानस्य स्वसंविदितत्वं स्वीकर्तव्यमेव वस्तुज्ञानार्थम् । ज्ञानं ज्ञानान्तरेण भवतीत्यप वक्तु न शक्यते यतो हि प्रथम ज्ञान द्वितीयज्ञानेन द्वितीय तृतीयेनेति अवश्थादोषप्रसङ्ग. प्रसज्येत, वस्तुज्ञानमेव च न सम्भवेत्। चार्वाणानुमान समाणं नाङ्गीक्रियतेति वस्तुज्ञानमनुमानेन भवतीति वक्तुन शक्यते । अतः स्वसंवेदनमेषितव्यम् । तत्र च स्वसंवेदनेन जीवस्य भोक्तृत्वसाधारणधर्मभूत: साक्षात्करणात प्रत्यक्षविरुद्ध मिदं चार्वाकपतमिति वक्तव्यं भवति ।11 जीवः शरीराद्भिन्नः, जीवो भोक्ता, शरीरं तु भोगायतनम , शरोरस्य भोगाधिष्ठानत्वेन प्रसिद्भः । अचेतनस्य शरीरस्य भोक्तृत्वं नोपपद्यते । अन्यथा मृतकस्यापि भोक्तृत्वप्रसङ्गः । नापि इन्द्रियसमूहस्य भोक्तृत्वं, तस्य भोगोपभोगकरणत्वात । न तु शब्दादिविषयस्य भोक्तृत्वं, तस्य भोग्यत्वेन प्रतीतिः । एवं भोक्तृत्वमात्मनि एवेति जीवस्य स्वतन्त्रसिद्धिर्भवति । 12 : देह एव आत्मा', तद्भिन्नो स्वतंत्रः कश्चित् आत्मा नास्तीति चार्वाकाणां वचनमनुमानविरुद्धम् । कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्य, तद्भाव एव चैतन्या भावात्. मद्याङगेभ्यो मदशक्तिवत् , इत्याद्यनुमानान् चैतन्यस्य भूतकार्यत्वसिदिः न शक्या । यतो हि, तदभाव एक सद्भावादिति हेनोरनैकान्तिकत्वात् , मृतावस्थायां तद्भावेऽपि (शरीरसद्भावेऽपि) चैतन्यस्याभावान वायुतेजसोरभावेन मृतावस्थायां चेतन्यं न भनोत्युच्यते चेत् . मृत शरीरे बम्स्यादिभिः सम्पादिते वायौ, तेजस्युपनीते सति वा चौनन्यं नोपलभ्यते ।15
9 (a पडदर्शनसमुच्चय टीका, पृ 220-221.
(b) तत्वार्थश्लोकवार्तिक, पृ. 26. 10 सत्यशासनपरीक्षा, पृ 16. 11 (a) तत्रैव, (b) इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखाति तु ज्ञन्तिरात्मनाऽपि प्रकाशिका-रत्नाकरावतारिका, पृ. 55. 12 तत्रैव, 16-17. 13 षड्दर्शनसमुच्चयटीका, पृ. 223.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org