________________
चार्वाकमतखण्डनम्
257
अन्यच्च, प्रतषेधगौणकल्पनादिभिरात्मास्तित्वं 14 साधयितु शक्यतेति आचार्यैः विद्यानन्दिभः सत्य शासनपरोक्षायां सम्यक् प्रदर्शितम् । तद्यथा-'नास्ति जीवः' इति योऽयं निषेधध्वनिः स जीवास्तित्वनान्तरोयक एव. निषेधशब्दत्वात । जीवप्रतिषेध वचनमेव जीवस्य मुख्यवृत्या अस्तित्वं सूचयति । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते । यथा 'नास्तोह घटः' इति प्रतिषेधो देशान्तरे घटास्तित्वं प्रकाशयति तथा स्वरूपादि चतुष्टयेन सत एव जीवस्य पररूपादिचतुष्टयेन नास्तित्वं घटते नान्यथा । खामा गादो नामयनामावरूपा गामपि निषेधः यथा क्रियते तद्वदत्यन्ताभावरूपस्य जीवस्यापि प्रतिषेधः युच्यतेति चार्वाकाणां वचनं युक्तिसङ्गतं नास्ति, यतो हि गवादिमस्तके सत एव विषाणस्य खरादिमस्तके प्रतिषेधदर्शनात् । तथा चित्रपुरुषादौ 'इदं सजीवचित्रं' इति गौणकल्पनं मुख्यवृत्या जीवास्तित्वं कथयति, यथा 'सिंहो माणवकः' इति माणवके सिंहत्वं विशष्टजात्यादिपरिणतसिंहास्तित्वमिति । तथा च 'जीवः' इति शुद्धपदं मुख्यवृत्या, स्वार्थवत् , शुद्धपदत्वात्, प्रमाणपदवत् । ततः शुद्ध पदाभिधेयत्वात् 'अस्ति जीवः' इति च सिद्धम् । तथैवानेकविशिष्ट जनसम्मतत्वात् , आप्तप्रणीतत्वाच्च 'अस्ति जीवः इत्युररीकर्तव्यमेव । तथा च भूतचतुष्टयेभ्यश्चैतन्यं, इति मत्वा देहातिरिक्तस्यात्मनो निराकरणं कार्यकारणसिद्धान्तविरुद्धमस्ति । चैतन्यं (जीवः) जड. भूतचतुष्टयानां भिन्नभिन्नस्वभावयुक्तानां कार्यरूपं न भवितुमर्हति । जडाद् जडवस्त्वेवोस्पद्यते न तु चैतन्यम् । कार्यस्य तु कारणेन सह सजातीयत्वमपेक्षते नो चेत् तण्डुलैः काष्ठकवाटो समुत्पात परमेवं न दृश्यते । कार्यकारणसिद्धान्तानुसारेण कार्यकारणयोः परस्परं पूर्वस्थित्यापन्नयोग्यता वरीवर्ति । यथा मृद्घटः नाशानन्तरं कारणरूपमृदा सह एकरूपो भवति । परं तु चैतन्यं भूतचतुष्टयैः सह एकात्मतां नोपद्यते । कार्यरूपं चैतन्यं जडभूतचतुष्टयादुत्पन्नमिति कथनमौचिती नाञ्चति । तथा च भूतचतुष्टयस्याः स्तित्वं बाह्यं, चैतन्यमान्तरिकम् । बाल्यादिभावाः हि भौतिकशरीरगोचराः। रागादिभावाः जोवस्य । एवं बहिरनमुखावभासयोः बाल्यादिरागादिविरुद्धधर्माध्यासितयोव्यान्तरभावेन भिन्नप्रमाणग्राह्यत्वात भेद एव । तयोर्देशभेदेनादर्शनादभेदे शरीराकारपरिणतावनिवनपवनसखपवनानामप्येकत्वप्रसङ्गात् । " उपादानकारणसदृशं हि कार्य भवति"16 इति वचनाद् धारणेरणद्रवोष्णतारूपेण भूतसादृश्याभावात , अमूर्तचैतन्यस्य मूर्त कार्यवायोगाच्च शरीराद्भिन्नमेव चैतन्यम् ।
14 'प्रतिषेध-गौणकल्पन-शुद्धपदानेकसम्मतिजिनोक्तैः । निर्बाधलक्षणार्थं लिङ्गरपि भाव्यते जीवः ।
उद्धृतोऽयं श्लोकः सत्यशासनपरीक्षायाम् पृ. 17. 15 तत्रैव पृ 17 16 , पृ. 18. 17 धारणं वृथिव्याः, इरणं वाय्योः, द्रवो जलस्य, उष्णता चाग्नेः ।
T-33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org