Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 266
________________ चार्वाकमतखण्डनम् 257 अन्यच्च, प्रतषेधगौणकल्पनादिभिरात्मास्तित्वं 14 साधयितु शक्यतेति आचार्यैः विद्यानन्दिभः सत्य शासनपरोक्षायां सम्यक् प्रदर्शितम् । तद्यथा-'नास्ति जीवः' इति योऽयं निषेधध्वनिः स जीवास्तित्वनान्तरोयक एव. निषेधशब्दत्वात । जीवप्रतिषेध वचनमेव जीवस्य मुख्यवृत्या अस्तित्वं सूचयति । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते । यथा 'नास्तोह घटः' इति प्रतिषेधो देशान्तरे घटास्तित्वं प्रकाशयति तथा स्वरूपादि चतुष्टयेन सत एव जीवस्य पररूपादिचतुष्टयेन नास्तित्वं घटते नान्यथा । खामा गादो नामयनामावरूपा गामपि निषेधः यथा क्रियते तद्वदत्यन्ताभावरूपस्य जीवस्यापि प्रतिषेधः युच्यतेति चार्वाकाणां वचनं युक्तिसङ्गतं नास्ति, यतो हि गवादिमस्तके सत एव विषाणस्य खरादिमस्तके प्रतिषेधदर्शनात् । तथा चित्रपुरुषादौ 'इदं सजीवचित्रं' इति गौणकल्पनं मुख्यवृत्या जीवास्तित्वं कथयति, यथा 'सिंहो माणवकः' इति माणवके सिंहत्वं विशष्टजात्यादिपरिणतसिंहास्तित्वमिति । तथा च 'जीवः' इति शुद्धपदं मुख्यवृत्या, स्वार्थवत् , शुद्धपदत्वात्, प्रमाणपदवत् । ततः शुद्ध पदाभिधेयत्वात् 'अस्ति जीवः' इति च सिद्धम् । तथैवानेकविशिष्ट जनसम्मतत्वात् , आप्तप्रणीतत्वाच्च 'अस्ति जीवः इत्युररीकर्तव्यमेव । तथा च भूतचतुष्टयेभ्यश्चैतन्यं, इति मत्वा देहातिरिक्तस्यात्मनो निराकरणं कार्यकारणसिद्धान्तविरुद्धमस्ति । चैतन्यं (जीवः) जड. भूतचतुष्टयानां भिन्नभिन्नस्वभावयुक्तानां कार्यरूपं न भवितुमर्हति । जडाद् जडवस्त्वेवोस्पद्यते न तु चैतन्यम् । कार्यस्य तु कारणेन सह सजातीयत्वमपेक्षते नो चेत् तण्डुलैः काष्ठकवाटो समुत्पात परमेवं न दृश्यते । कार्यकारणसिद्धान्तानुसारेण कार्यकारणयोः परस्परं पूर्वस्थित्यापन्नयोग्यता वरीवर्ति । यथा मृद्घटः नाशानन्तरं कारणरूपमृदा सह एकरूपो भवति । परं तु चैतन्यं भूतचतुष्टयैः सह एकात्मतां नोपद्यते । कार्यरूपं चैतन्यं जडभूतचतुष्टयादुत्पन्नमिति कथनमौचिती नाञ्चति । तथा च भूतचतुष्टयस्याः स्तित्वं बाह्यं, चैतन्यमान्तरिकम् । बाल्यादिभावाः हि भौतिकशरीरगोचराः। रागादिभावाः जोवस्य । एवं बहिरनमुखावभासयोः बाल्यादिरागादिविरुद्धधर्माध्यासितयोव्यान्तरभावेन भिन्नप्रमाणग्राह्यत्वात भेद एव । तयोर्देशभेदेनादर्शनादभेदे शरीराकारपरिणतावनिवनपवनसखपवनानामप्येकत्वप्रसङ्गात् । " उपादानकारणसदृशं हि कार्य भवति"16 इति वचनाद् धारणेरणद्रवोष्णतारूपेण भूतसादृश्याभावात , अमूर्तचैतन्यस्य मूर्त कार्यवायोगाच्च शरीराद्भिन्नमेव चैतन्यम् । 14 'प्रतिषेध-गौणकल्पन-शुद्धपदानेकसम्मतिजिनोक्तैः । निर्बाधलक्षणार्थं लिङ्गरपि भाव्यते जीवः । उद्धृतोऽयं श्लोकः सत्यशासनपरीक्षायाम् पृ. 17. 15 तत्रैव पृ 17 16 , पृ. 18. 17 धारणं वृथिव्याः, इरणं वाय्योः, द्रवो जलस्य, उष्णता चाग्नेः । T-33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302