Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 250
________________ नैषधं विद्वदोषघम् " 18 स्वकाव्येऽस्मिन् सकलशास्त्र नदीष्णता, स्वीया सर्वज्ञता, रसिकोत्तंसता, लौकिकव्यवहा पटिष्ठता चानेन प्रादर्शि । सकलशास्त्रपारावारीणस्यास्य कवेः मुखादुत्तरोत्तरं काव्यं नवनवा शब्दा: धारावाहितया निरर्गल निर्गताः दरीदृश्यन्ते काव्येऽस्मिन् । यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे " इत्यादीनि यानि काव्यप्रयोजनानि काव्य सिद्धान्तलक्षणका रैः प्राधान्येन निर्दिष्टानि तानि सर्वाण्यपि महाकाव्येऽस्मिन् समुपलभ्यन्ते तथापि सद्यः परनिर्वृतिरेव काव्यस्यास्य प्रमुख प्रयोजनमिति 'एतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ' इत्यस्मात् तन्निबद्धश्लोका देवावगम्यते । व्युत्पत्यभ्यासपरिष्कृता प्रतिभा काव्यसमुद्भव हेतुरिति मम्मट हेमचन्द्रादिभिः काव्यसिद्धान्तलक्षणकारैः 'शक्तिनिपुणतालोके काव्यशास्त्राद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे" 19, 'व्युत्पत्यभ्याससंस्कृता प्रतिभास्य हेतुः १० इत्यादिभिर्वचनैः निर्दिश्यते । प्रतिभाव्युत्पत्तिरूपमणिकाञ्चनसंयोगात् यत्काव्यालङ्कारस्य रचना भवति सैव विदग्धकण्ठाभरणरूपतां प्राप्तुमर्हतीति क्षेमेन्द्रो उद्घोषयति । 1 एतेषां काव्यसिद्धान्तकर्तॄणामनुरोधेन व्युत्पत्तौ सकलज्ञानस्रोत रूपाष्टादशत्रिद्यानां कूलङ्कषज्ञानस्यान्तर्भावो भवतीति मन्तव्यम् | 22 श्री हर्षोऽपि निर्दिष्ट पूर्वसिद्धान्तानुसारेण व्युत्पत्य भ्यास परिपूर्ण प्रतिभाद्वारेण स्वकाव्यं प्राणषीदिति नास्ति सन्देह लेशोऽपि । काव्येऽस्मिन् कविना समस्त विषयज्ञानपरिपक्वता प्रादर्शि । व्युत्पत्ति पूर्णत्वा देवास्य काव्यस्य सर्वोत्कृष्टता स्वीकृता विद्वद्भिः । सकलशास्त्र विषयकज्ञानाकरभूतत्वात् काव्यमि विद्वदौषधमित्युच्यते । यथौषधं ज्वरादीनां निवारणाय शरीरबलवर्धनार्थञ्चासेव्यते द्व नैषधमपि अल्पज्ञगर्वज्वरनिवारकं विद्वज्जनबुद्धि बलवर्धकञ्च वरीवर्तीति "नैषधं विद्वदौषधं " इति सङ्गिरन्ते विद्वांसः । अत्र तु तीव्रतरमतिवैभवानां विदुषां समाराधनं भवति । काव्यान्तरेभ्यः द्राक्षापाकयुक्तेभ्यः वैलक्षण्यं भजमानं शब्दतोऽर्थतश्च गभीरायमाणमिदं नैषधं सामान्यमतियुक्तानां कृते कटुकौषधायते । काव्यान्तरेषु वेविद्यमानाः सर्वेऽपि काव्यगुणाः रसभावालङ्कारादयश्चात्र दरीदृश्यन्त एव, तथापि इदमेव वैलक्षण्यमस्य काव्यस्य यदन्यैः कविभिरक्षुण्णं पन्थानमाश्रित्य कविरत्र विषयप्रतिपादनं करोति । इयमेव विलक्षणतास्यान्यकविभ्यो यदयं विद्वत्प्रतिभटकरिकेसरी, अनितरसाधारणमतिवैभवश्चानन्यसाध्यया विलक्षण काव्यपटुतया सकलशास्त्रार्णा किमधिकमष्टादशविद्यानां हृदयं स्वकाव्ये परमरमणीयतया निबबन्धेति । नैषां विद्वदौषधमिति कथने इदमप्येकं कारणं यत् नैकविधप्रन्थानामध्ययनेन यज्ज्ञानमुपलभ्यते तदेकेनैवानेन नैषध काव्याध्ययनेन सम्प्राप्तुं शक्यतेति । कबिनानेन स्वकाव्ये उपनिबद्धानां सर्वेषामपि विषयाणां सविस्तरेण प्रतिपादनमशक्यप्रायमेव लघीयसि प्रबन्धेऽस्मिन् । एकैकमेव काव्यप्रकाश - I. ने. - XXXII - सर्गान्तश्लोक -3. 17. 18 19. काव्यप्रकाश -I-3. 20. काव्यानुशासन - I 21. कविकण्ठाभरण V T-31 Jain Education International 22 (1) काव्यप्रकाश - I. (2) काव्यमीमांसा - VII. (3) कविकण्ठाभरण - V. (4) वाग्भटालङ्कार -- 1-5. 241 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302