Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 249
________________ 240 Traverses on less trodden path... कैरगन्तुं शस्यो । 1चिन्तामणिमन्त्रोपासनालब्धतीव्रतरमतिभवोऽयं प्रतिभासामर्थ्य सर्वानन्यान् कवीनतिशेते । एतेन प्रगीतं नैषधीयचरितं सुप्रसिद्धेषु पञ्चसु महाकाव्येषु न केवलमन्यतमत्वेन परिगण्यते अपे तु सर्व धरीत्या सर्वोत्कृष्टमिति सुविदितमेव सर्वेषामपि विदुषाम । काव्यस्यास्याध्ययन संस्कृतभाषापटुत्वं विविधशाम्नविषयकवैदुष्यचाधिगन्तुं प्राचीनसंस्कृत साहित्याध्ययन परम्परायामपरिहार्यत्वेन निर्दिश्यते । गद्यकाव्येषु यथा कादम्बरी बागस्याद्वितीयेति परिगण्यते तथैवाप्रतिममिदं नैषधं काव्यप्रन्थेषु ! कविकुलतिलक कालिदासं विहाय नैषधकाव्यप्रणेतुः श्रीहर्षस्य महिमातिशयः भारविमाघाद्यपेक्षया गरीयानीति ‘उदिते नैषधे काव्ये क माघः क्वच भारवि.' इत्यभियुक्तोक्यःऽवगन्तुं शक्यते । कैदिचकाव्यममज्ञरेवमप्युक्तं दरीदृश्यते यत् पञ्चसु महाकाव्येषु कवि कुलगुरोः कालिदासस्य रघुवंशकुमारसम्भवे स्त्रीचरित्रवर्णनात्मके, भारविमाघयोः किरातार्जुनीयशिशुपालवधकाव्ये च पुरुषचरित्रवर्णनात्मके । परमेतस्य श्रीहर्षस्य नैषधीयकाव्यन्तु प्रकृतिपुरुषर्योरुभयोरपि समानरूपेण वर्णनात्मकं निसर्गभिन्नारपदमेक संस्थं महाकाव्यमिति । तदुक्तं-द्वे स्तेत्र प्रकृतेः पुंसे द्वे चैकमुभयोरपि । पञ्चस्वेतेषु पाण्डित्यं पुरुषार्थो हि पञ्चमः'15 इति । राजशेखरस्य काव्योलोचनसिद्धान्तानुसारेण शास्त्रकविः काव्यकविः तथोभयकविश्चेति त्रिप्रकारकाः भवन्ति कवयः । केचन काव्यसंसारे संस्कारप्रतिभाशक्त्या कवयो भवन्ति, अपरे तु शास्त्रादीनामभ्यासबलाच्च । एतादृशानां कवीनां काव्यग्रन्थेषु केवलं शृङ्गारादिरसपरिपूर्ण काव्यसौन्दर्य नीरसशास्त्रनियमानां वा प्रदर्शनं वयमक्षिसाकुर्मः । उभयोरपि सङ्गमो एकत्र दुर्लभप्रायो दृश्यते । अत एवं राजशेखर उभयत्रप्रवीण एव महाकविरिति समुद्घोषयति तथोभयकविस्तूभयोरपि वरीयान् याभयत्र परं प्रवीणः स्यात् 15 इत्यादिना । नैषधीयकाव्ये काव्यकलाकौशलं शास्त्रीयसिद्धान्तानां च सरससरण्या प्रतिपादनमवलोक्य उभयकविरासीत् श्रीहर्षः इति निःसन्देहेन वक्त पार्यते । नलदमयन्तीचरितप्रतिपादकं काव्यमिदं भारते प्रसिद्धेषु फचसु महाकाव्येष्वन्त-- भंतं गुणालङ्काररसभावादिविषये परमोत्कर्षमधिरूढं विद्वत्प्रियञ्च वरीवर्ति । अद्योपलभ्यमानमिदं २८०० श्लोकैः परिमितं द्वाविंशतिसर्गात्मकं बृहत्कायं महाकाव्यम् । अत्र तु द्वित्रान् सर्गानपहायान्ये सर्वेऽपि शताधिकैः श्लोकः संयोजिताः सन्ति । अत्र द्वाविंशस्य सर्गस्यान्ते श्रयमाणा 'श्रीरस्तु नस्तुष्टये 16 इत्येवं रूपा मङ्गलाशंसा काव्यस्यास्य द्वाविंशसर्गात्मकत्वमेव प्रख्यापयति । 12. तच्चिन्तामणिमन्त्रचिन्तनफले महाकाव्ये - नै. I-145. 13. नैषधीयपरिशीलन - डॉ. चंडिका प्रसाद शुक्ल, पृ. 555. 14. यच्छास्त्रसंस्कार: काव्यमनुगृणहाति, शास्त्रैकप्रवणता तु निगृहाति । काव्यसंस्कारोऽपि शास्त्रवाफ्यपाकमनुरुणद्धि, काव्यक प्रवणता तु विरुणद्धि ।-काव्यमीमांसा-V. 15. काव्यमीमांसा-v. 16. ने.-XXII- 150. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302