Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 243
________________ 234 Traverses on less trodden path... __ शब्दद्वारेण युगपदेव सकलधर्माणां प्रतिपादनमसंभवमेव । अतः यो धर्मः विवक्षितः वस्तुनः स प्रधानो भवति, गौणीभूताश्चभवन्त्यन्ये । अत्र प्रथम भङ्गेसत्वस्य प्राधान्यं पुनरसत्वस्य द्वितीये, तृतीये, क्रमार्पितयोः सत्वासत्वयोः, चतुर्थत्ववक्तव्यत्वस्य, पञ्चमे सत्वविशिष्टावक्तव्यत्वस्य, असत्वविशिष्टावक्तव्यत्वस्य च षष्ठे, सप्तमे तु क्रमापित. सत्वासत्वस्य विशिष्टावक्तव्यत्वस्येति मन्तव्यम् । अत्र स्वरूपादिभिरस्तित्वमिव नास्तित्वमपि स्यादित्यनिष्ठार्थस्य निवृत्तये स्यादस्त्येवेत्येवकारः । तेन च स्वरूपादिभिरस्तित्वमेव न नास्तित्वमित्यवधार्यते । अत एवोक्तं 'वाक्येनावधारणं तावदनिष्ठार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्' । वस्तूनामनेकत्वादनेके भङ्गाः भवितुमर्हन्ति, सप्तैव भङ्गाः इति कथं वक्तुं शक्यतेति शङ्का समुत्पधेत । परन्तु प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गाः । अत एवोक्तं रत्नाकराव. तारिकायां-'एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमनेऽनन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गोति चेतसि न विधेयम् । विधिनिषेधप्रकाशापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गोनामेव सम्भवात् 154 एकत्र वस्तुनि सप्तभङ्गाः भवितुमर्हन्ति यथा एकस्मिन्नेव घटे रूपवान् घटः, रसवान् घटः, स्पर्शवान् घटः इत्यादि पृथग्व्यवहारनिवन्धना. रूपत्वादि स्वरूपभेदाः संभवन्ति तथैव मन्तव्यम् । द्रव्यात्मना वस्तु स्यादेकमेव नो नाना। पर्यायात्मनो नानैव स्यात् नैकम् । तदेतत्प्रतिपादितं तत्त्वार्थराजवतिके -"अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽ. पितान् नयात्"10 इति । एवं सकलदार्शनानां परस्परविरुद्धभाषिणामभिमतवस्तूनां सद्भूतांशानां परस्परसापेक्षया कथन स्याद्वाद:56 इति जनानां मतम् । जैनदर्शनधुरीणाः समन्तभद्राकलंकहरिभद्र. प्रभाचन्द्रादयो सांख्यं सदेवेकान्तवादी, माध्यमिकमतमस देकान्तवादी, न्यायवैशेषिकमतं सदसदेकान्तवादी, प्राचीनबौद्धमतमव्यक्ते कान्तवादी,, शाङ्कराद्वैतमतं सदवक्तव्यकान्तवादो, बौद्धानामपोहवादिनां मतमसदवक्तव्यकान्तवादी, पदार्थवादो सदसदव्यक्तव्य कान्तवादा इति वदन्तः नित्यानित्यैकान्तवादिनां सकलदर्शनानामन्तर्भावो सप्तभङ्गीनयरूपे स्याद्वादे भवतीति प्रतिपादयन्ति । ये ये वस्त्वंशाः नित्यमनित्यं सदसत् इत्यादि । परैरङ्गीकृताः सर्वेऽपि सापेक्षाः सन्तः (स्यान्नित्यं, स्यादनित्यं इत्यादि) परमार्थसत्यतां 52. सप्तभङ्गीतरङ्गिणी-पृ. ९. 53. प्रमाणनयतत्त्वालोकालङ्कार-रत्नाकरावतारिका-IV-15-पृ. 61. 54. प्रमाणनयतत्त्वालोकालङ्कार - 1V-37-45. 55. तत्त्वार्थराजवार्तिक-पृ. 35. 56. षड्दर्शनसमुच्चयटीका १ 3. 57. आप्तमीमांसा -9-10; अष्टसहस्त्री, न्यायकुमुदचन्द्र, प्रमेयकमलमार्तण्ड, स्याद्वादमंजरी, षड्दर्शनसमुच्चयटीका, इत्यादयो ग्रन्थाः दृष्टव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302