Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 230
________________ जैनदर्शनस्य आस्तिकता वा नास्तिकता 221 अनादितत्त्वरूपेण स्वीकृत्य, तदेव विश्वोत्पत्तिस्थितिलयकारणमिति मन्वाना कार्यकारणसंबन्धमस्य विश्वस्येश्वराद् स्वतन्त्रमिति ब्रुवते । ईश्वरोऽप्यदृष्टनियमोल्लघनं कर्तुं न समर्थोऽस्तीति तेषां मतम् । मूकस्य सांकेतिकभाषामवगत्यान्यस्मै निवेद्यमानः माध्यस्थ इव ईश्वरो केवलं निमित्तकारणं जगन्निर्माणकार्ये । मर्यादितस्वरूपेणाङ्गीकृतस्य निमित्त. कारणीभूतस्येश्वरस्य ईश्वरत्वं कथं सिध्येत इति महान् प्रश्नः । सांख्यदर्शनं तु निरीश्वरसांख्यमित्येव सुप्रथितं विद्यते । मतस्यास्यानुसारेणापि 'प्रकृतिवियोगो मोक्षः, सतु त्रिविधदुःखात्यन्तनिवृत्तिरूप:', प्रकृति पुरुषतत्त्वज्ञानात्88 समुपलभ्यते । सांख्यदर्शनतत्त्वमीमांसायां जगदुत्पत्तिस्थितिलयकारणीभूतो ईश्वरः नाङ्गीकृतः । तेषां मते पुरुषसान्निध्यात्प्रकृतिरेव जग:कारणं न तु ईश्वरः । ते तु 'ईश्वरासिद्धेः' इत्यादिवचनैः ईश्वरास्तित्वसिद्धिः असंभवेति निगदन्ति । योगदर्शनं तु सेश्वरसांख्यमित्युच्यते । परमत्रापि ईश्वरवादिनामभिमतो ईश्वरः नोरीकृतः । पातञ्जलयोगे स्वीकृतो ईश्वरस्तु गुरुसदृशः ‘क्लेशकर्मविपाकाशयर पराभृष्टो पुरुषविशेषः '91 अयं तु न मोक्षस्य विषयः न स्रष्टिस्थितिविलयकर्ता नापि च कर्मफलाध्यक्षः। चितवृत्तिनिरोधस्वरूपाद् योगात् द्रष्टुः स्वरूपेऽवस्थानमेव मोक्षः इति योगदर्शनकाराणां मतम् । अयमस्य मथितार्थः यत् सेश्वरसांख्येति परिगण्यमाने योगदर्शनेऽपि तत्त्वमीमांसायां ईश्वरो नाङ्गीकृतः । यद्यपि षड्दर्शनानि वेदप्रामाण्यमुररीकुर्वन्ति तेषु पूर्वमीमांसोत्तरमीमांसादर्शनद्वयमेव मूलरूपेण वेदावलम्बीति वक्तुं शक्यते । मीमांसकास्तु स हि (धर्मः) श्रेयसेन पुरुषं युनक्तीत्यादि वदन्तः ईश्वरस्य जगकर्तृकत्वं, वेदरचयितृकत्वं च निराकुर्वन्ति । जगतः अनादिमत्वं नित्यत्वं च स्वीकुर्वन्तो मीमांसकाः ईश्वरस्य जगकर्तृकत्वं, वेदान् अपौरुषेयान् मन्वानाः तस्य वेदकर्तृकत्वं च नानुमन्यन्ते । कर्मफल्यो: अबाधिनित्य सम्बन्धात् कर्मशक्त्यैव फलं उत्पद्यते, यादृशं कर्म तादृशं फलम् । दुष्टकर्मणां फलनाशो ईश्वरानुग्रहेण न भवितुं शक्यते । अतः कर्मफलयोर्मध्ये नास्त्येवेश्वरस्यावश्यकता इति वदन्ति । मीमांसकानामीश्वरविरोधित्वं परां काष्ठां गतमासीदिति तेषां निरीश्वरवादः नास्तिकवादे परिणति प्राप्तः आसीदिति प्रायेणैव हि मीमांसा लोके लोकायतीकृताः । 87. सांख्यप्रवचनसूत्र-1. 88. तद्विपरीतश्रेयान् व्यक्ताव्यक्तविज्ञानात्-सांख्यकारिका-2. 89. पवन्धवदुभयोरपि संयोगः तत्कृत: सर्ग:-सांख्यकारिका-21. 90. सांस्यप्रवचनसूत्र-92-93. 91. पातञ्जलयोगसूत्र-1-14. 92. योगश्चित्तवृत्तिनिरोधः-योगसूत्र-1-1. 93. योगसूत्र-1-2. 94. मीमांसादर्शनशाबरभाष्य-1-1-1. 95. वेदस्यापौरुषेयत्वात्...वेदस्य नित्यता प्रोक्ता (कुमारिल भट्ट). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302