Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
View full book text ________________
Traverses on less trodden path...
पुण्योदये सति मनुष्यस्वभावस्य व्ययः देवस्वभावस्योत्पादः चैतन्यस्वभावस्य धौव्यम् । अपि च जीवस्य सिद्धावस्थोदये सिद्धत्वेनोत्पादः, संसारभावतो व्ययः, जीवत्वेन धौव्यमिति सर्व त्रयात्मकं भवति । तदुक्तं - ' सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतो ज्ञेयः । जीवत्वेन धौव्यं त्रितयुतं सर्वमेत्रं तु' | 28 तथैवाजीवद्रव्यस्यापि मृद्द्रव्यस्य मृदः पिण्डाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पाद: मृद्रूपस्य धुत्रत्वम् । यदा घटो उत्पद्यते तदा स घटात्मनोत्पद्यते, मृत्पिण्डात्मना विनश्यति, मृदात्मना च ध्रुव इति बलादभ्युपगन्तव्यमेवोत्पादादियुक्तत्वमजीवस्यापि । अतः उत्पादव्ययधौव्यात्मकता वस्तुनोऽनंतधर्मात्मनामे द्योतयति ।
230
अनन्तधर्मात्मक त्रस्तुनः एकदेशविशिष्टार्थवर्णनं नयवादः इत्युच्यते । अत्र वस्तुन एकांश प्राधान्येन वर्ण्यतेऽन्येष्वशेष्यौदासीन्यं प्रदश्यते । तदुक्तं वादिदेवसूरिभिः यत् नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशः तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नय 20 इति । एकदेशविशिष्टोऽर्थो नयस्य विषयो भवति 150 अर्थात् प्रमाणग्रहीतार्थस्यैकदेशग्राही प्रमातुरभिप्रायविशेषो नयः । द्रव्यार्थिक नयः पर्यायास्तिकसंक्षेपेो द्वेधा । द्रव्यमेवपरमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरः द्रव्यातिकः । पर्याया एवं वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपर पर्यायास्तिकः । तत्र नैगमसंप्रहव्यवहार ऋजुपूत्र शब्द समभिरुदैवं भूतप्रकारेषु 1 नयसप्तेषु आद्यस्त्रयो द्रव्यास्तिकाः शेषास्तु पर्यायास्तिकाः ।
द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया विवक्षणं नेगमनयः । 32 यथा 'सच्चैतन्य - मात्मनि' इत्यत्र चैतन्यस्य प्राधान्येन विवक्षणं, सत्त्वस्य चोपसर्जनभावेन विवक्षणं भवति । सामान्यमात्रम शेषशेषरहितं सत्त्वद्रव्यादिकं गृह्णातीति संग्रहो नयः इत्युच्यते 27. (a ) मीमांसा लोकवार्तिक- पृ. 619.
(b) घटमौली सुवर्णार्थी नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यति न प्रयोति दधिव्रतः । अगोरसव्रतो नोभे तस्माद्वस्तुत्रयात्मकम् ॥ (c) प्रध्वस्ते कलशे सुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमुत्राह कामपि नृपः शिश्राय मध्यस्थताम् ॥ पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्द्वया
धारश्चैक इति स्थित त्रयमयं तत्त्वं तथा प्रत्ययात् ।
28. उद्धृतोऽयं तत्त्वार्थमाण्यवृत्तौ हरिभद्रेण - V-29 29. प्रमाणनयतत्वालीकालङ्कार - VI1-1
- उद्धृतोऽयं रत्नाकरावतारिकायां पृ. 85 -8.
30. न्यायावतार - 29
31. तत्त्वार्थसूत्र - 1 - 34.
32. प्रमाणनयतत्र लोकालङ्कार - VII-7-33
Jain Education International
आप्तमीमांसा श्लोक 59 60
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302