Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 238
________________ अनेकान्तवादस्थ स्वरूपम् 229 एवं सकलं वस्त्वनन्तधर्मात्ममिति जैनाना सिद्धान्तः । षड्दर्शनसमुच्चयस्य 'अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह1 इत्यस्य श्लोकस्य विवरणप्रसङ्ग गुणरत्नसूरिभिः वस्त्वनेकान्तात्मकं प्रमाणप्रसिद्धमिति प्रमेयत्वहेतुना साधयितुं शक्यतेति प्रदर्शितम् । तथाहि, 'अनन्तधर्मात्मकं अस्तु' प्रमेयम् । 'सचेतनाचेतनं सर्व वस्तु अनन्तधर्मात्मकमिति' पक्षः । 'प्रमाणविषयः' इत्यनेन प्रमेयत्वादिति केवलव्यतिरेको हेतुः सूचितः । अन्यथानुपपत्त्यैकलक्षणत्वाद्धेतोरन्ताप्त्यैव साध्यस्य सिद्धत्वात् दृष्टान्तादिभिः न प्रयोजनम् । यदनन्तधर्मात्मक न भवति तत्प्रमेयमपि न भवति, यथा व्योमे कुसुममिति केवलो व्यतिरेकः । अन्वयदृष्टान्तौ च पक्षान्त तावेव बते । यतः संसारस्य सर्व चेतनाचेतनं वस्तु पक्षरूपेणाङ्गीकृतोऽस्ति । प्रमेयत्वहेतुरसिद्धविरूद्धानकान्तिकादिदोषरहितो वर्तते । यतः प्रत्यक्षादि प्रमाणान्यनन्तधर्मात्मकमेव वस्तु बोधविषयी कुर्वन्ति । वस्तुनोऽनन्तधर्मात्मकतामेव दृढयितुं हरिभद्राचार्यरूक्तं यत्, 'येनोत्पादव्ययध्रौव्य. युक्तं यत्तत् सदिष्यते । अनंतधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ इति । उत्पत्ति-- स्थितिविनाशयोग एर मतो वस्तुनः लक्षणम् , उत्पादव्ययध्रौव्ययुक्तं सत* इत्यादि वचनात् । अत्र भिन्नोत्पाकव्ययध्रौव्ययोगाद्भावस्य सत्वं नाभ्युपगम्यते । किन्तु उत्पादव्ययध्रोव्ययोगात्मकमेव सदिति स्वीक्रियते । तदुक्तं समन्तभद्राचार्ययत् , "न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । ___ व्येत्युदेति विनाशात्त सहकत्रोदयादि सत् ।। 88 द्रव्यात्मना सर्वस्य वस्तुनः स्थितिः पर्यायात्मना तु सर्व वस्तु उत्पद्यते विपद्यते वा । सर्वेऽपि पदार्थाः प्रतिक्षणं परिवर्तन्ते । परं परिवर्तमानेषु वस्तुष्वत्यन्तोच्छेदो न भवति । तदुक्तं-'सर्वव्यक्तिषु नियतं क्षणेक्षणेऽन्यत्वमथ च विशेषः । सत्योश्चित्यपचितयोराकृतिजातिव्यवस्थानम् ।" इति । अत्रैक स्मन् वस्तुन्युत्पत्तिस्थितिविनाशकथनमसम्भवमिति प्रतीयेत । परं सूक्ष्मेक्षिकया विचार्यमाणे विरोधोऽसम्भवो वा न प्रतीयते । यथा पक्कदलीफले उत्पद्यमाना हि पोतता पूर्वकालभाविनी हरिततां नाशयति, अर्थात् पीततायाः उत्पत्तिः जायते, हरिततायाश्च विनाशः । परन्त्ववस्थाद्वयेऽपि कदलीफलत्वं स्थिरूपेण वर्तत एव । एवमेव यदा वर्धमानकभङ्गे रुचकः क्रियते तदा पूर्वाथिनः शोकः, उत्तराथिन प्रोतिः माध्यस्थ्य तु केवलं हेमाथिनः, तस्माद्वस्तु यात्मकम् । एवं च यथा जीवद्रव्यस्य स्वर्गप्रापक21. षड्दर्शनसमुच्चय-जैनमत-लोक. 55 22. पइदर्शनसमुच्चयटीका, पृ. 358-9. 23. षड्दर्शनसमुच्चय-लोक-57. 24. तत्वार्थसूत्र-V-30. 25. आप्तमीमांसा-लोक 27. 26. उदधृतोऽयं श्लोकः अनेकान्तवादप्रवेशिकायाम् हरिभद्राचार्यस्य तत्वाभाष्यटीकायाम् च [-V-29. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302