Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 237
________________ 228 Traverses on less trodden path... तस्याणुत्वं, महत्त्वं, ह्रस्वत्वं, दीर्घत्वं चानन्तभेदं स्यादित्यनन्ताः स्वधर्माः । यैः यः स घटः व्यावृत्तो भवति ते सर्वे परपर्यायाः । उत्क्षेपणावक्षेपाणाकुचनप्रसरणरेचनपूरणजलादिधारणानन्तक्रियाणां तत्तत्कालभेदेन तरतमयोगेन हेतुत्वेन घटस्यानन्ताः कियारूगः स्वधर्माः तासां क्रियाणाम हेतुभ्योऽन्येभ्यो व्यावृत्तत्वेनानंताः परधर्माः भवन्ति । अपि चैक एव हि घटः कस्मैचिदल्पं, कस्मैचिदधिकं सुख मुत्पादयन् जीवानामनन्तानोमनं. तप्रकारस्य पुण्यपापादिरू रबन्धकारणत्वादनन्तेच्छानामवलम्बनत्वोत् मायालोभरागद्वेषादि विकाराणां कारणं भवतीति घटस्यानन्तधर्मत्वम् । घटे तूत्पादाः विनाशाः स्थितयश्च पुनः पुनः भवेनानन्तकालेनानन्ताः अभूवन , भवन्ति, भविष्यन्ति च तदपेक्षयाप्यनन्ताः धर्माः । प्रतिद्रव्यक्षेत्रादि प्रकार घटस्यावक्तव्यतापि स्वधर्मः स्यात् , तस्य चानन्तेभ्यो वनव्योभ्यो धर्मेभ्योऽन्यद्रव्येभ्यश्च व्यावृत्तत्वेनानन्ता अवक्तव्याः परधर्माः अपि भवन्ति । एवं यथैकघटेऽनंतधर्मात्प्रकता दृष्टा तथैव जीवाद पर्व द्रव्येषु स्वरूपेणास्तित्वधर्माः, पररूपेण नास्तित्वधर्माश्चेत्यनन्तात्मकता भावनीया । जीवद्रव्येऽपि सहभाबिनो क्रमभाविनश्चेति अनंता धर्माः भवन्ति । चैतन्यं, कर्तृत्व, भोक्तृत्वं, प्रमातृत्वं, प्रमेयत्वं, परिणामित्वं, सशरीरव्यापित्वमित्यादयो सहभाविनो धर्माः आत्मनि । हर्षविपादौ सुखदुःखे, मत्यादिज्ञानचक्षुदर्शनोपयोगौ, देवनारकतयङ्नरत्वानि स्त्रीपुंनपुसंकत्वान्धवादीनि क्रमभाविनो धर्मा ।18 अत्रापि स्वरूपेणास्तित्व. धर्माः, पररूपेण नास्तित्वधर्माः विज्ञेयाः। धर्माधर्माकाशकालेष्वसंख्यासंख्यानन्तप्रदेशाप्रदेशत्वं सर्वजीवपुद्गलानां गतिस्थित्यवाहवर्तनोपग्राहकत्वं 19 तत्तदवच्छेदकावच्छेद्यत्व. मवस्थितत्वं, अनाद्यनन्तस्वरूपित्वं अगुरुलघुनैकसंबन्धत्त्रं, सत्त्वं, द्रव्यत्व इत्यादयोऽनेके धर्माः दृश्यते ।३० पौलिकद्रव्येषु घटदृष्टान्तेनानन्ताः स्वपरधर्माः भवन्तीति प्रदर्शित. पूर्वमेवारमाभिः । स्वपर्यायाः व तुनः संबन्धिनो भवन्ति, परं परपर्यायाः भिन्नवस्त्वाश्रयाः कथं तस्य संबन्धिनो भवितुमर्हन्तीति शङ्कायाः कृते आस्पदो नास्ति यतो हि इहास्तित्वेन नास्तित्वेन च संबन्धो द्विधा । स्वपर्यायैरस्तित्वेन संबन्धः यथा घटस्य रूपादिभिः । परपर्यायैस्तु नास्तित्वेन संबन्धः तेषां तत्रासम्भवात् यथा घटावस्थायां मृद्रपतापर्यायेण । ते परपर्यायाः न सन्तीति नास्तित्वसंबन्धेन सम्बद्धाः अत एव च ते परपर्यायाः इति व्यपदिश्यन्ते । 17. . 16. षड्दर्शनसमुच्चयटीका, पृ. 334. पृ. 334-335. 18. पृ. 337. 19. तत्वार्थ सूत्र -V-17-22. 20. षड्दर्शनसमुच्चयटीका पृ. 340. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302