________________
228
Traverses on less trodden path... तस्याणुत्वं, महत्त्वं, ह्रस्वत्वं, दीर्घत्वं चानन्तभेदं स्यादित्यनन्ताः स्वधर्माः । यैः यः स घटः व्यावृत्तो भवति ते सर्वे परपर्यायाः । उत्क्षेपणावक्षेपाणाकुचनप्रसरणरेचनपूरणजलादिधारणानन्तक्रियाणां तत्तत्कालभेदेन तरतमयोगेन हेतुत्वेन घटस्यानन्ताः कियारूगः स्वधर्माः तासां क्रियाणाम हेतुभ्योऽन्येभ्यो व्यावृत्तत्वेनानंताः परधर्माः भवन्ति । अपि चैक एव हि घटः कस्मैचिदल्पं, कस्मैचिदधिकं सुख मुत्पादयन् जीवानामनन्तानोमनं. तप्रकारस्य पुण्यपापादिरू रबन्धकारणत्वादनन्तेच्छानामवलम्बनत्वोत् मायालोभरागद्वेषादि विकाराणां कारणं भवतीति घटस्यानन्तधर्मत्वम् ।
घटे तूत्पादाः विनाशाः स्थितयश्च पुनः पुनः भवेनानन्तकालेनानन्ताः अभूवन , भवन्ति, भविष्यन्ति च तदपेक्षयाप्यनन्ताः धर्माः । प्रतिद्रव्यक्षेत्रादि प्रकार घटस्यावक्तव्यतापि स्वधर्मः स्यात् , तस्य चानन्तेभ्यो वनव्योभ्यो धर्मेभ्योऽन्यद्रव्येभ्यश्च व्यावृत्तत्वेनानन्ता अवक्तव्याः परधर्माः अपि भवन्ति ।
एवं यथैकघटेऽनंतधर्मात्प्रकता दृष्टा तथैव जीवाद पर्व द्रव्येषु स्वरूपेणास्तित्वधर्माः, पररूपेण नास्तित्वधर्माश्चेत्यनन्तात्मकता भावनीया ।
जीवद्रव्येऽपि सहभाबिनो क्रमभाविनश्चेति अनंता धर्माः भवन्ति । चैतन्यं, कर्तृत्व, भोक्तृत्वं, प्रमातृत्वं, प्रमेयत्वं, परिणामित्वं, सशरीरव्यापित्वमित्यादयो सहभाविनो धर्माः आत्मनि । हर्षविपादौ सुखदुःखे, मत्यादिज्ञानचक्षुदर्शनोपयोगौ, देवनारकतयङ्नरत्वानि स्त्रीपुंनपुसंकत्वान्धवादीनि क्रमभाविनो धर्मा ।18 अत्रापि स्वरूपेणास्तित्व. धर्माः, पररूपेण नास्तित्वधर्माः विज्ञेयाः। धर्माधर्माकाशकालेष्वसंख्यासंख्यानन्तप्रदेशाप्रदेशत्वं सर्वजीवपुद्गलानां गतिस्थित्यवाहवर्तनोपग्राहकत्वं 19 तत्तदवच्छेदकावच्छेद्यत्व. मवस्थितत्वं, अनाद्यनन्तस्वरूपित्वं अगुरुलघुनैकसंबन्धत्त्रं, सत्त्वं, द्रव्यत्व इत्यादयोऽनेके धर्माः दृश्यते ।३० पौलिकद्रव्येषु घटदृष्टान्तेनानन्ताः स्वपरधर्माः भवन्तीति प्रदर्शित. पूर्वमेवारमाभिः ।
स्वपर्यायाः व तुनः संबन्धिनो भवन्ति, परं परपर्यायाः भिन्नवस्त्वाश्रयाः कथं तस्य संबन्धिनो भवितुमर्हन्तीति शङ्कायाः कृते आस्पदो नास्ति यतो हि इहास्तित्वेन नास्तित्वेन च संबन्धो द्विधा । स्वपर्यायैरस्तित्वेन संबन्धः यथा घटस्य रूपादिभिः । परपर्यायैस्तु नास्तित्वेन संबन्धः तेषां तत्रासम्भवात् यथा घटावस्थायां मृद्रपतापर्यायेण । ते परपर्यायाः न सन्तीति नास्तित्वसंबन्धेन सम्बद्धाः अत एव च ते परपर्यायाः इति व्यपदिश्यन्ते ।
17.
.
16. षड्दर्शनसमुच्चयटीका, पृ. 334.
पृ. 334-335. 18.
पृ. 337. 19. तत्वार्थ सूत्र -V-17-22. 20. षड्दर्शनसमुच्चयटीका पृ. 340.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org