________________
अनेकान्तवादस्थ स्वरूपम्
229
एवं सकलं वस्त्वनन्तधर्मात्ममिति जैनाना सिद्धान्तः । षड्दर्शनसमुच्चयस्य 'अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह1 इत्यस्य श्लोकस्य विवरणप्रसङ्ग गुणरत्नसूरिभिः वस्त्वनेकान्तात्मकं प्रमाणप्रसिद्धमिति प्रमेयत्वहेतुना साधयितुं शक्यतेति प्रदर्शितम् । तथाहि, 'अनन्तधर्मात्मकं अस्तु' प्रमेयम् । 'सचेतनाचेतनं सर्व वस्तु अनन्तधर्मात्मकमिति' पक्षः । 'प्रमाणविषयः' इत्यनेन प्रमेयत्वादिति केवलव्यतिरेको हेतुः सूचितः । अन्यथानुपपत्त्यैकलक्षणत्वाद्धेतोरन्ताप्त्यैव साध्यस्य सिद्धत्वात् दृष्टान्तादिभिः न प्रयोजनम् । यदनन्तधर्मात्मक न भवति तत्प्रमेयमपि न भवति, यथा व्योमे कुसुममिति केवलो व्यतिरेकः । अन्वयदृष्टान्तौ च पक्षान्त तावेव बते । यतः संसारस्य सर्व चेतनाचेतनं वस्तु पक्षरूपेणाङ्गीकृतोऽस्ति । प्रमेयत्वहेतुरसिद्धविरूद्धानकान्तिकादिदोषरहितो वर्तते । यतः प्रत्यक्षादि प्रमाणान्यनन्तधर्मात्मकमेव वस्तु बोधविषयी कुर्वन्ति ।
वस्तुनोऽनन्तधर्मात्मकतामेव दृढयितुं हरिभद्राचार्यरूक्तं यत्, 'येनोत्पादव्ययध्रौव्य. युक्तं यत्तत् सदिष्यते । अनंतधर्मकं वस्तु तेनोक्तं मानगोचरः ॥ इति । उत्पत्ति-- स्थितिविनाशयोग एर मतो वस्तुनः लक्षणम् , उत्पादव्ययध्रौव्ययुक्तं सत* इत्यादि वचनात् । अत्र भिन्नोत्पाकव्ययध्रौव्ययोगाद्भावस्य सत्वं नाभ्युपगम्यते । किन्तु उत्पादव्ययध्रोव्ययोगात्मकमेव सदिति स्वीक्रियते । तदुक्तं समन्तभद्राचार्ययत् ,
"न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ।
___ व्येत्युदेति विनाशात्त सहकत्रोदयादि सत् ।। 88 द्रव्यात्मना सर्वस्य वस्तुनः स्थितिः पर्यायात्मना तु सर्व वस्तु उत्पद्यते विपद्यते वा । सर्वेऽपि पदार्थाः प्रतिक्षणं परिवर्तन्ते । परं परिवर्तमानेषु वस्तुष्वत्यन्तोच्छेदो न भवति । तदुक्तं-'सर्वव्यक्तिषु नियतं क्षणेक्षणेऽन्यत्वमथ च विशेषः । सत्योश्चित्यपचितयोराकृतिजातिव्यवस्थानम् ।" इति ।
अत्रैक स्मन् वस्तुन्युत्पत्तिस्थितिविनाशकथनमसम्भवमिति प्रतीयेत । परं सूक्ष्मेक्षिकया विचार्यमाणे विरोधोऽसम्भवो वा न प्रतीयते । यथा पक्कदलीफले उत्पद्यमाना हि पोतता पूर्वकालभाविनी हरिततां नाशयति, अर्थात् पीततायाः उत्पत्तिः जायते, हरिततायाश्च विनाशः । परन्त्ववस्थाद्वयेऽपि कदलीफलत्वं स्थिरूपेण वर्तत एव । एवमेव यदा वर्धमानकभङ्गे रुचकः क्रियते तदा पूर्वाथिनः शोकः, उत्तराथिन प्रोतिः माध्यस्थ्य तु केवलं हेमाथिनः, तस्माद्वस्तु यात्मकम् । एवं च यथा जीवद्रव्यस्य स्वर्गप्रापक21. षड्दर्शनसमुच्चय-जैनमत-लोक. 55 22. पइदर्शनसमुच्चयटीका, पृ. 358-9. 23. षड्दर्शनसमुच्चय-लोक-57. 24. तत्वार्थसूत्र-V-30. 25. आप्तमीमांसा-लोक 27. 26. उदधृतोऽयं श्लोकः अनेकान्तवादप्रवेशिकायाम् हरिभद्राचार्यस्य तत्वाभाष्यटीकायाम् च [-V-29.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org