________________
अनेकान्तवादस्य स्वरूपम्
227
परपर्यायाः व्यावृत्तिरूपाः अनन्ताः भवन्ति । एवं सुवर्ण घटे द्रव्यापेक्षयानन्ताः स्वपरपर्यायाः भवन्ति ।11
एवमेव घटः स्वक्षेत्रेऽस्ति परक्षेत्रे नास्ति । तत्रापि तिर्यग्लोकवर्तित्वेनास्ति, ऊर्ध्वादिलोकवतित्वेन नास्ति । तिर्यग्लोकवयपि सः भारतवर्तित्वे न पुनः विदेशवर्तित्वादिना, अत्राप्येकरिमन्नगरे एकदेशस्थानीयतयाअस्ति न त्वन्य देशादितया । एवं क्षेत्रतोऽपि स्वपरपर्यायाः अनन्ता भवन्ति एकस्मिन्नेव घटे19 ।
कालदृष्ट्या यदा घटो विवक्षितो भवति तदा घटस्य स्वकालः वर्तमानकालः । परकालोऽतीतादिः । तत्र स्वकाले वर्तमानकालेऽस्ति परकाले अतीतादि काले नारित । वर्तमानकालेऽपि वासन्तिकयास्ति न पुनरन्यर्तुनिष्पन्नतया । तत्रापि नवत्वेन विद्यते, न पुनः पुराणत्वेन । तत्राप्यद्यतनत्वेनास्ति, अन्यक्षणतया नास्ति । एवं च परवापरत्वाभ्यां सर्वद्रव्येभ्यः क्षणलवघटी दिनमासवर्षादिभिः घटस्य पूर्वत्वेन परत्वेन चानन्तभेदेनानन्तभेदाः काल्तो भवन्ति ।
भावतोऽपि सः घ:: पुनः पीतवर्णेनास्ति, नीलादिवर्णैर्नास्ति । पीतोऽपि सोऽपर. पोतद्रव्यापेक्षयेकगुणपीतः, स एव च तदपरापेक्षया द्विगुणपीतः, स एव च तदन्यापेक्षया त्रिगुणपोतः, एवं तावद्वक्तव्यं यावत्कस्यापि पीतद्रव्यस्यापेक्षयानन्तगुणपीतः । अस्यायं भावः यत् तारतम्यभावेन पीतत्वस्याप्यनन्तभेदाः सम्भवन्ति । ते तस्यानन्तस्वपर्यायाः। पीतवर्णतरतमयोगेनानन्तभेदेभ्यो नीलवर्णादिभ्यो व्यावृत्तिरूपाः अनन्ताः परपर्यायाश्च । एवं भावतोऽप्यनन्तस्वपरपर्यायाः घटे सम्भवन्ति ।।
एवमेव सामान्यतो, विशेषतो, परिणामतो, कर्मतश्चानन्तधर्माः एकस्मिन्नेव घटे प्रत्यक्षीकर्तु शक्यन्ते । अतीतादि कालेषु ये ये विश्ववस्तूनामनन्ताः स्वपरपर्यायाः भवन्ति तेषु, एकद्विव्याद्यनन्तपर्यन्तधर्मः सहशस्य घटस्यानन्तभेदसादृश्यभावेनानन्ताः स्वधर्माः सामान्यतो भवन्ति1+ । विशेषतस्याप्यनन्ता. धर्माः घटे भवन्ति । घटोऽन्या. नंतद्रव्यापेक्षयकेन, द्वाभ्यां त्रिभिर्वा यावदनन्तैर्वा धर्मैः विलक्षणः सन् व्यावृत्तश्च भवति तेभ्यः । अनंतद्रव्यापेक्षया घटस्य स्थूलता, कृशता, समता, विषमतादि प्रत्येकमनन्तविधाः धर्माः भवन्ति । ततः स्थूलतादिद्वारेणाप्यनन्ता धर्माः भवन्ति । संबन्ध तोऽप्यनन्तकाले नानन्तः परवस्तुभिः सम प्रस्तुतघट स्याधाराधेयभावोऽनन्तविधो भवति । एवं जन्यजनकत्वनि मेत्तनमत्तिकादि संख्यातीतसंबन्धैरपि प्रत्येकमनन्ता धर्माः घटस्य ।18 परिणामतश्चापि घटेऽनंता स्वधर्माः परधर्माश्च भवन्ति । तत्तद्रव्यापेक्षया
11. षड्दर्शनसमुच्चयटीका, पृ. 329-330.
घृ. 331. पृ. 332. पृ. 335. पृ. 336.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org