________________
226
Traverses on less trodden path... जैनानां मतानुसारेण प्रत्यक्षप्रमाणस्य परोक्षस्य च ग्राह्यमनन्तधर्मात्म कमेव वस्तु । वस्तुसंबन्धिज्ञानमस्माकमन्धगजन्याय इवैकान्तिकं भवति । अतः वरुवनन्तधर्मात्ममिति मत्वैव व्यवहारोऽनेकान्तवादः । वस्तुनोऽनेकान्तात्मकता तु सर्वदा सर्वप्रमातृभिरनुभूयत एव ।
कथमेकस्मिन्नेव वस्तुनि मिथो विरोधिनोऽनन्तधर्माः भवितुमर्हन्तीति शङ्का समुत्पद्यत । परमियं शङ्का निरास्पदेव । परस्परापेक्षया एकस्मिन्नेव वस्तुन्यनेकधर्माः भवन्ति, यथा एकस्य देवदत्तस्य पिता, पुत्रो, भ्राता, भागिनेयः, इत्येवमादयः संबन्धाः जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्तेऽपणाभेदात् । पुत्रापेक्षया पिता, पितृपेक्षया पुत्रः इत्येवमादिः । तथा द्रव्यमपि सामान्यापेक्षया नित्यं, विशेषणार्पणयानित्यमिति नास्ति विरोधः । अत एवोक्तं तत्त्वार्थराजनातिके यत् 'अर्पणाभेदादविरोधः, पितापुत्रादि संबन्धवत् । अत एव हेमचन्द्राचारयुक्तं यत जगतीतले न तादृशं किमपि वस्तु यदनेकान्तमुद्राङ्कितं न भत्र त । आदीपमाव्योम सकलं वस्तु नित्यानित्यस्वभावरूपानेकान्तमुदाङ्कितं दृश्यते--'आदीपमाव्योम समस्वभावं स्थाद्वादमुद्रानति भेदि वस्तु । तन्नित्यत्व में कमनित्यानन्यदिति वदाज्ञ द्विषतां प्रलापाः' इत्यादिना । प्रमाणप्रमेयरूपे वस्तुनि स्वपरद्रव्यापेक्षया क्रमाक्रमभावे नानन्तधर्माणां प्रतीतिर्भवति । स्वरूपग्रहणं पररूपभावाग्रह गच्च वस्तुनः वस्तुत्वम् । तदेवोक्तमकलङ्कदेवैः "स्वपरात्मोपादानापोहनः व्यवस्थापाद्यं हि वस्तुनो वस्तुत्वं 10' इति ।
एकस्मिन्नेव वस्तुन्यनेके धर्माः स्वारपर्यायः भवन्तीति, सर्वप्रसिद्धमनेकान्तात्मकतां सौवर्ण घटदृष्टान्तेन सविस्तरं प्रदर्शयितुं शक्यतेति जैनदर्शनकाराणामुद्घोषः। सुवर्णघटो हि विवक्षितो स्वद्रव्यक्षेत्रकाल भावैरस्ति परद्रव्यक्षेत्रकालभावश्च नास्ति । घटो स्वरूपेणास्ति पररूपेण च नास्ति, घटरूपेगास्ति पररूपेण कम्बलरूपेण वा नास्ति । स्वक्षेत्रे स्वस्थाने भूतलादावस्ति, न तु परवस्तूनां पटादीनां स्थाने कुड्यादौ, स्वकाले वर्तमानकालेऽस्ति न त्यतोतानागतकाले । स्वभावेन पीतवर्णनास्ति परभावैः श्वेतादिवणः नास्ति । ___ षड्विधद्रव्येषु घट: पुद्गलद्रव्येऽन्तर्भवति । यदा घटो वर्ण्यते पुद्गलद्रव्यापेक्षया तदा घट सत् भवति, सः पौद्गलिकद्रव्यत्वेनास्ति. धर्माधर्माकाशादि द्रव्यैस्तु नास्ति । पोद्गलकोऽपि स घटः पार्थिवत्वेनास्ति न पुनरप्यादित्वैः । पार्थिवोऽपि घटः धातुरूपतयास्ति न पुनः मृत्वादिभिः । धातुरूपोऽपि स घटः सौवर्णत्वेनास्ति राजतत्वादिभिर्नास्ति । सौवर्णोऽपि स घटो घटितसुवर्णात्मकत्वेनास्ति, अघटितसुवर्णात्मकत्वादिना नास्ति । पृथुबुनायाकारेणास्ति स घटः, मुकुटादित्वेन नास्ति । एवं प्रकारेण येन येन पर्यायेणास्ति इत्युच्यते स तस्य स्वपर्यायो भवति, यः यैः व्यावृत्यते स घटः, ते सर्वे 7. सर्वार्थसिद्धि-v. 32 8. तत्त्वार्थ राजवार्तिक, पृ. 36. 9. अन्ययोगव्यवच्छेदिका, लोक 5. 10. तत्वार्थ र जवार्तिक, पृ. 24.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org