________________
21 अनेकान्तवादस्य स्वरूपम्
विदितमेवैतत्सर्वेषामपि विदुषां यत प्रत्येकस्य दर्शनस्यैको विशिष्टो मूलभूतो सिद्धान्तो भवति यस्याधारेण तद्दर्शनग्य सौधनिर्मितिर्भवतीति । जैनानामनेकान्तबादोऽपि तादृशो सिद्धान्तो यो जैनदर्शनसौधस्य प्रतिष्ठानभूमिरिति परिगण्यते । तेषां मते वस्त्वनेकान्तात्मकं भवति । सचेतनाचेतनं सर्व द्रव्यं वस्तु । द्रव्यं षड्वधं भवति 'जीवः धर्माधर्माकाशकालपुद्गलाश्चाजीवा' इति ।।
जैनानां मते वस्तु न नित्यमेकान्तेन नापि चानित्यम, न भिनं, नैवाभिन्नं, न सद् नाप्यसत् , परं नित्यानित्यं, भिन्नाभिन्नं, सदसदुभयात्मकं भवति । जैनोतिरिक्ताः सऽप्येकान्तवादिनः । यतो हि-सौगताः वस्तुनः केवलमनित्यत्वं, नित्यत्वं सांख्याः, न्यायवैशेषिकास्तु परस्परविविक्ते निन्यानित्यत्वे, सदसत्वे, सामान्यविशेषौः मीमांसकाः स्याच्छन्दवर्ण्य भिन्नाभिन्ने, नित्यानित्यत्वे, सदसदंशो, सामान्यविशेषौ, शब्दस्य नित्यत्वं चः, शब्दब्रह्मज्ञानाद्वैतवादिनः शब्दाद्वैत, ब्रह्माद्वत, ज्ञानाद्वैतञ्चाङ्गोकुर्वाणा एकान्तवादे विश्वसन्ति । एकमेकान्त दिनोऽनन्त धर्मात्मकस्य वस्तुनोऽभीष्टैकधर्मस्यैकान्तप्रतिपादनेन तच्छेषधर्मानपलप न्त । जैनास्त्वनेकान्त प्रतिपादनेन तानपि बोधविषयी कुर्वन्ति ।
एकस्मिन्नेव वस्तुन्यनेके धर्माः भवन्तीति प्रतिपादनमनेकान्तवादः। वस्तुतत्त्वविषये नित्यमनियं, भिन्न भिन्नमित्यादीकान्तमतत्यागात् वस्त्वनेकान्तात्मकमिति कथनमनेकान्नवादः इति मथितार्थः । तदुक्तं विद्यादिभिः--सदसन्नित्यानित्यादिप्रतिक्षेपलझ गोऽनेकान्तः इति । गुणात्नसूरिभिरपि षड्दर्शनसमुच्चयटीकायां सदसन्नित्यानित्य. सामान्यविशेषाभिलाप्यानभिलायोभयात्मानेकान्तः इत्युक्तम् । अनेके अन्ता धर्माः सामोन्यविशेषपर्यायाः गुणाः यस्येत्यनेकान्तः । अनन्तात्रिकालविषयत्वादपरिमितधर्माः स्वभावाः सहभाविनो क्रम भाविनश्च स्वपरपर्याया यस्मिन् तदनन्तधर्ममेव स्वार्थे कप्रत्ययेऽनन्तधर्मकमनेकान्तमित्यर्थः । जैनानां मते समग्रज्ञानानां विषयभूतं वस्त्वनेकान्तात्मकं, 'अनेकान्तात्मकं वस्तु गोचरं सर्वसंविदाम्' इत्यादि वचनात् । 1. तत्वार्थसूत्र-]-4, v 1, 38; प्रशमरति-189, 207, 210. 2. गुणरत्नसूरि-षड्दर्शनसमुच्चयटीका, पृ. 3-4. 3. अष्टसहस्री, पू 286. 4. षड्दर्शनसमुच्चयटीका, पृ. 3. 5. गुणरत्नसूरि-- . तत्रैव पृ. 328. 6. सिद्धसेन न्यायावतार-29.
T-29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org