________________
224
Traverses on less trodden path... एत्र गरीयानिति आस्तिकदर्शनानीव जैनदर्शनेनानेनापि समुद्धोष्यत एव । जैनधर्मे न कुत्रापि अनैतिकजीवनस्य प्रोत्साहनं दीयते । सदाचारमार्गेणैव विषयवासना विजित्य वीतरागतां प्राप्ताः धर्मस्यास्य नेतारो तीर्थकराः ।
___ यदि षड्दर्शनानि मूलतः निरीश्वरवादीनि तथापि आस्तिकानीति मन्यन्ते चेत् किमर्थ निरीश्वरवादीजैनदर्शनमेकमेव नास्तिकपदेन व्यपदेश्यम् । संकुचितसाम्प्रदायिक मनोवृत्तिरेवात्र कारणमिति मन्यामहे । यतो हि प्रतिपादितपूर्वमेवास्माभि यत् भारती. यास्तिकदर्शनेषु मूलतत्त्वरूपेण स्वीकृतानांआत्मास्तित्व पुनर्जन्म कर्मसिद्धान्तादीनामङ्गीकारः जैनदर्शनेनापि कृतोऽस्ति । तपयोगदेवादिविग्रहेषु दृढविश्वास: आंस्तिकमतमान्यो जैनधर्ममान्यः एव । अतः संकुचितमनोवृति मन:पटलात् निष्कारय दर्शनविशालतरूतले समुपविश्य पूर्वग्रहदोषदृष्टिं परित्यज्य विचार्यमाणे मुक्तकण्ठमुद्धोषणीयं भवति यत् जैनदर्शनमपि दर्शनान्तराणीवास्तिकदर्शनमेवेति । इति शम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org