SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जैनदर्शनस्य आस्तिकता वा नास्तिकता 223 एवमेवास्तिक दर्शनानीव जैनदर्शनमपि ईश्वरस्य जगत्कर्तृकत्वादिकं नानुमन्यते । यथोक्तं अन्ययोगव्यवच्छेदिकायां हेमचन्द्राचार्यैः कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः । इमा: कुवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ "10 9 जैना. ईश्वरवादिनाम् अभिमतं ईश्वरं नाङ्गीकुर्वन्ति । परं तेषां मते अनन्तज्ञानवीर्य सुखरूप आत्मा एवेश्वरः । कोमानमायालो भहास्य भयविस्मयादि विकाररहितं सर्वज्ञ परमात्मानमेत्र ईश्वरत्वेनाङ्गीकुर्वन्ति । " जैन धर्ममान्येश्वरस्य परमात्मनो वा स्वरूपं आचार्यैः अमितगतिभिः परम रम्यशब्दैः वर्णितमस्ति यथा यो दर्शनज्ञानसुखस्वभावः समस्त संसारविकारबाह्यः । समाधिगम्यः परमात्मज्ञः स देवदेवो हृदये ममास्ताम् || 110 इति । उक्तं चाकलंकस्तोत्रे त्रैलोक्यं सकलं त्रिकालविषयं सालोक्यमालोकितं । साक्षात् येन यथा स्वयं करतले रेखात्रयं साङ्गुलिम् !! रागद्वेषभयामयान्तकजरालोकत्व लोभादयो । नालं त्वत्पदलङ्घनाय सः महादेवो मया वन्द्यते ॥ आचार्य पूज्यपादस्वामिभिरपि आत्मा एव परमेश्वरः स एवोपास्यः यः परात्मा स एवाहं योऽहं स परमस्तवः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः 111 इत्यादिना स्पष्टमुक्तं विद्यते । स्वप्रयत्नेनैव सर्वेऽपि जीवाः वीतरागतां प्राप्य ईश्वरपदप्राप्तुमर्हन्तीति उद्घोषयति दर्शनमिदम् । जैनदर्शनानुसारेण सर्वेऽपि 'मुक्तात्मानः ईश्वरस्त्ररूपा एव । यदि ईश्वरस्यैकस्याभ्युपगमात् दर्शनमेकमास्तिकशब्दभाग्भवति चेत् अनन्तमुक्तात्मनः ईश्वररूपेणाङ्गीक्रियमाणं जैनदर्शनं परमास्तिकदर्शनमिति स्वीकर्तव्यमेव भवति । अन्यच्च भारतीय सर्वदर्शनानि मूलतः निरीश्वरवादीन्येवेति प्रदर्शित पूर्वमेवास्माभिः । निरीश्वरवादो नैव जडवादः नापि च अनाचारवादः । ईश्वरः न तु आध्यात्मिक जीवनस्य नापि चोत्तमनैतिक जीवनस्य आधारभूतः । सच्चारित्रेण आध्यात्मिकशिखरमारुह्य तत्त्वज्ञानात् मोक्षमधिगन्तुं ईश्वरवादिनामभिमतस्येश्वरस्य न काऽप्यावश्यकता, स्वप्रयत्नः 109. (a) अन्ययोगयवच्छेदिका - 6. (b) जैनकृत ईश्वरवादखण्डनार्थ द्रष्टव्याः अधोनिर्दिष्टग्रन्थाः- Jain Education International [11 अष्टसहस्त्री - पृ. 268 - 269. [2] प्रमेयकमलमार्तण्ड - पृ. 266-284. [3] न्यायकुमुद चन्द्र. [4] स्याद्वाद मंजरी -28-42. 110. भावनाद्वात्रिंशिका - 12. 111. समाधितंत्र -31. For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy