________________
222
Traverses on less trodden path...
तामास्तिकपथे नेतुमयं यत्नः कृतो यथा इत्यादि कुमारिलभट्टानां वचनैः अनुमातुं शक्यते । हरिभद्रोऽपि मीमांसकानामीश्वरविरोधित्तं, जैमिनीयाः पुनः प्राहुः सर्वज्ञादि विशेषणः। देवो न विद्यते कोऽपि यस्य मानं वचो भवेदिति प्रदर्शयति ।
स वेदान्ताः अपि सर्व खल्विदं ब्रह्म' 93 'ब्रह्मैवेई विश्वं' 9 3 'अयमात्मा ब्रह्म'100 'तदात्मा तत्त्वमसि श्वेतकेतो'101 'यथा नधास्यन्दमाना. समुद्रेऽस्तं गच्छंति नामरूपे विहाय तथा विद्वान् नापरूपाद्विमुक्तः परात्परं पुरुष पुपैतिदिव्यं103 इत्यादि शब्दैः आत्मब्रह्म गोरक्यमेव परमपुरुषार्थरूपेण स्वीकुर्वन्ति न तु ईश्वरवादिनामभिमतस्येश्वरस्य प्राप्तिम् । शंकराचार्या अपि आत्मब्रह्म गोरक्ययेव मोक्षः इति प्रतिपादयन्तः आत्मा च ब्रह्मा ब्रह्मभावश्च मोक्षः1 04 ब्रह्मसत्यं जगन्मिथ्या जोवो ब्रह्मैव नापरः105 इति वेदान्त डिण्डिमः इति समाघोषयन् । ते तु निर्गुणब्रह्मैव परमार्थसत्तारूपेणाङ्गीकृत्य' जगन् ब्रह्मविवर्तः इति प्रतिपाद्य साधारण जनानां उपासनार्थ सगुणब्रह्मरूपेण ईश्वर स्त्रोकृत्य पारमार्थिकदृष्ट्या तस्यास्तित्वमेव नास्तीत्यवदन् ।100
वेदान्तदर्शने यत्र तत्र समुपयुक्ताः 'ईश्वरः' 'महेश्वरः' 'ईशः' इत्यादि शब्दाः आत्मनः ब्रह्मणो वा पर्यायवाचकाः सन्ति । ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति' 1104 इत्यादि भगवद्गीतायां 'ईश्वरः' इति शब्दः आत्मानमेव संकेतयति । श्वेताश्वतरोप. निषदि, मायां तु प्रकृति विद्यात् मायिनं तु महेश्वर 108 इत्युक्तं तत्र महेश्वरशब्दो परब्रह्मणः पर्यायवाचकः शब्दोऽस्ति ।
96. श्लोकवार्तिक-प्रतिज्ञा सूत्र--10 97. षइदर्शनसमुच्चय-मीमांसा करण । 98 छान्दोग्योपनिषद् -III--XIV-1. 99. मुण्डकोपनिषद्-II II-11 160. माण्डूक्योपनिषद्-2-1. 101. छान्दोग्योपनिषद् --VI-XV1-3. 102. मुण्डकोपनिषद् -3-2-8. 103. ब्रह्मसूत्रांरभ व्य -जिज्ञासाधिकरण-सूत्र-1. 104. तत्रैव-1-4. 105. ब्रह्मज्ञानावलीमाला-श्लोक 20. 106. अचिन्त्यस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।
उपासकानां सिध्यर्थी ब्रह्मणो रूपकल्पना ॥ 107. भगवद्गीता-XVIII-61. 108. श्वेताश्वतरोपनिषद्-IV-10.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org