________________
जैनदर्शनस्य आस्तिकता वा नास्तिकता
221 अनादितत्त्वरूपेण स्वीकृत्य, तदेव विश्वोत्पत्तिस्थितिलयकारणमिति मन्वाना कार्यकारणसंबन्धमस्य विश्वस्येश्वराद् स्वतन्त्रमिति ब्रुवते । ईश्वरोऽप्यदृष्टनियमोल्लघनं कर्तुं न समर्थोऽस्तीति तेषां मतम् । मूकस्य सांकेतिकभाषामवगत्यान्यस्मै निवेद्यमानः माध्यस्थ इव ईश्वरो केवलं निमित्तकारणं जगन्निर्माणकार्ये । मर्यादितस्वरूपेणाङ्गीकृतस्य निमित्त. कारणीभूतस्येश्वरस्य ईश्वरत्वं कथं सिध्येत इति महान् प्रश्नः ।
सांख्यदर्शनं तु निरीश्वरसांख्यमित्येव सुप्रथितं विद्यते । मतस्यास्यानुसारेणापि 'प्रकृतिवियोगो मोक्षः, सतु त्रिविधदुःखात्यन्तनिवृत्तिरूप:', प्रकृति पुरुषतत्त्वज्ञानात्88 समुपलभ्यते । सांख्यदर्शनतत्त्वमीमांसायां जगदुत्पत्तिस्थितिलयकारणीभूतो ईश्वरः नाङ्गीकृतः । तेषां मते पुरुषसान्निध्यात्प्रकृतिरेव जग:कारणं न तु ईश्वरः । ते तु 'ईश्वरासिद्धेः' इत्यादिवचनैः ईश्वरास्तित्वसिद्धिः असंभवेति निगदन्ति ।
योगदर्शनं तु सेश्वरसांख्यमित्युच्यते । परमत्रापि ईश्वरवादिनामभिमतो ईश्वरः नोरीकृतः । पातञ्जलयोगे स्वीकृतो ईश्वरस्तु गुरुसदृशः ‘क्लेशकर्मविपाकाशयर पराभृष्टो पुरुषविशेषः '91 अयं तु न मोक्षस्य विषयः न स्रष्टिस्थितिविलयकर्ता नापि च कर्मफलाध्यक्षः। चितवृत्तिनिरोधस्वरूपाद् योगात् द्रष्टुः स्वरूपेऽवस्थानमेव मोक्षः इति योगदर्शनकाराणां मतम् । अयमस्य मथितार्थः यत् सेश्वरसांख्येति परिगण्यमाने योगदर्शनेऽपि तत्त्वमीमांसायां ईश्वरो नाङ्गीकृतः ।
यद्यपि षड्दर्शनानि वेदप्रामाण्यमुररीकुर्वन्ति तेषु पूर्वमीमांसोत्तरमीमांसादर्शनद्वयमेव मूलरूपेण वेदावलम्बीति वक्तुं शक्यते । मीमांसकास्तु स हि (धर्मः) श्रेयसेन पुरुषं युनक्तीत्यादि वदन्तः ईश्वरस्य जगकर्तृकत्वं, वेदरचयितृकत्वं च निराकुर्वन्ति । जगतः अनादिमत्वं नित्यत्वं च स्वीकुर्वन्तो मीमांसकाः ईश्वरस्य जगकर्तृकत्वं, वेदान् अपौरुषेयान् मन्वानाः तस्य वेदकर्तृकत्वं च नानुमन्यन्ते । कर्मफल्यो: अबाधिनित्य सम्बन्धात् कर्मशक्त्यैव फलं उत्पद्यते, यादृशं कर्म तादृशं फलम् । दुष्टकर्मणां फलनाशो ईश्वरानुग्रहेण न भवितुं शक्यते । अतः कर्मफलयोर्मध्ये नास्त्येवेश्वरस्यावश्यकता इति वदन्ति । मीमांसकानामीश्वरविरोधित्वं परां काष्ठां गतमासीदिति तेषां निरीश्वरवादः नास्तिकवादे परिणति प्राप्तः आसीदिति प्रायेणैव हि मीमांसा लोके लोकायतीकृताः ।
87. सांख्यप्रवचनसूत्र-1. 88. तद्विपरीतश्रेयान् व्यक्ताव्यक्तविज्ञानात्-सांख्यकारिका-2. 89. पवन्धवदुभयोरपि संयोगः तत्कृत: सर्ग:-सांख्यकारिका-21. 90. सांस्यप्रवचनसूत्र-92-93. 91. पातञ्जलयोगसूत्र-1-14. 92. योगश्चित्तवृत्तिनिरोधः-योगसूत्र-1-1. 93. योगसूत्र-1-2. 94. मीमांसादर्शनशाबरभाष्य-1-1-1. 95. वेदस्यापौरुषेयत्वात्...वेदस्य नित्यता प्रोक्ता (कुमारिल भट्ट).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org