________________
220
Traverses on less trodden path...
जन्म । जन्मकारणं प्रवृत्तिः । प्रवृत्तिकारणं दोषः, दोषकारणं मिथ्याज्ञानम् । आध्यात्मविद्यायामात्मादितत्त्वज्ञानं तत्त्वज्ञानम् । यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति, तदा मिथ्याज्ञानापाये दोषा अपयान्ति दोषापाये प्रवृत्तिरपैति प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमपैति, दुःखापाये च आत्यन्तिकोऽपवर्गो निःश्रेयसमिति” ।
79
अतोऽत्रापवर्गमधिगन्तुं नास्त्यैवावश्यकता ईश्वरानुग्रहस्य । गौतम न्यायसूत्रे ईश्वरस्योल्लेखो आनुषङ्गिकदृष्टया कृतोऽस्ति त्रिषु सूत्रेषु । 'ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् " । न पुरुषकर्मभावे फलनिष्पत्तेः ० ० ' तत्कारित्वादहेतुः '' 781 इति । वाचस्पतिमिश्रोदय नवर्धमानादीनां न्यायशास्त्र धुरन्धराणां अभिप्रायानुसारेण त्रीण्यप्येतानि सूत्राणि ब्रह्मपरिणामवादिनां वेदान्तिनां खण्डनार्थ निर्दिष्टानि गौतमेन न तु ईश्वरास्तित्वविषयकप्रमाणप्रदर्शनाय ॥ 88
4
कणादस्य वैशेषिकसूत्रेषु निर्देशो नोपलभ्यते ईश्वरस्य । अत युक्तिदीपिकाकारस्तु स्पष्टं वदति यत् 'तस्मात् सूत्रकारमते नास्तीश्वरः' इति । पट्पदार्थानामेव तत्त्वज्ञानं मोक्षप्राप्तिसाधनमिति मनुते न तु ईश्वरानुग्रहं वैशेषिकसूत्रकारः इति 'धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्वज्ञानान्निःश्रेयसम्" इत्यनेन सूत्रेण विज्ञायते । कणादस्य तद्वचनादाम्नायस्य' प्रामाण्यं इति सूत्रमवलम्ब्य केचन सूत्रान्तर्गतस्य 'तद् शब्दस्यार्थः ईश्वरः' इति विवरणं विधाय कणादोsपि ईश्वरास्तित्वमङ्गीचकार स्वतत्त्वमीमांसाप्रसङ्गे इति प्रतिपादयन्ति । परमेतन्नसमंजसमिति प्रतिभाति । न्यायकन्दलीकारो श्रीधरः ( यः स्वयं ईश्वरवादी) 'तद्' शब्दः 'ऋषिः' इत्यर्थे सूत्रेऽस्मिन्नुपयुक्तोऽस्तीति वदति । 'तद्' शब्दस्य 'धर्मः' इत्यर्थः इत्यन्ये निगदन्ति । परमस्य बह्वर्थस्य सूत्रस्याधारेण कणादो ईश्वरास्तित्वं प्राधान्येन स्वीकारेति कथनं युक्तियुक्तं न भवेदेव । यतो हि न्याय - वैशेषिकमतानुसारेण विश्वरचनायाः कृते, जगदुत्पत्तये - परमाण्यात्मा दृष्टशक्तिश्चालम् । जगदुत्पत्तिस्थितिलय वर्णनार्थमपि ईश्वरस्यावश्यकता न दृश्यते । अनेनेदं सुस्पष्टं भवति यत् गौतमस्य न्यायदर्शनं कणादस्य च वैशेषिकदर्शनं, मूलतः निरीश्वरवादिदर्शनमिति । इदमत्रावश्यमवधेयं यद् ईश्वरवादिनो न्याय-वैशेषिका : प्रशस्तपादउदयन श्रीधरादयोऽपि संसाररचनामीमांसायामेव ( cosmology) ईश्वरस्यावश्यकतां जगदुत्पत्तेः निमित्तकारणरूपेणाङ्गीकृत्य परमाण्वात्मादृष्टशक्तिमेव उपादानकारणमिति वदन्ति । अदृष्टनियममेव
79. न्यायसूत्र -4-1-19.
80.
4-1-20,
81.
"P
4-1-21. 82. तत्रैव - 4 - 1 21 टीकायां. 83. युक्तिदीपिका- कारिका - 15.
84. वैशेषिकसूत्रम् - 1-1-4.
1.0
85. वैशेषिकसूत्रम् - 1-1-3.
86. अणूनां मनसश्चाद्यं कर्मा दृष्टकारितम् — वैशेषिकसूत्र - 5 - 2 - 13.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org