________________
जनदर्शनस्य आस्तिकता वा नास्तिकता
219
___ आस्तिकदर्शनेष्वपि ये वेदप्रामाण्यं उररीकुर्वन्ति तेष्वपि कानिचिदर्शनानि वेदोपनिषदां निरपेक्षयैव स्वसिद्धान्तान् प्रतिपादयामासुः । तत्र न्यायवैशेषिकसांख्ययोगदर्शनानि नाममात्रमेव वैदिकदर्शनानि । तैः प्रतिपादितानां सिद्धान्तानां वेदैः सह न कोऽपि साक्षात्मबन्धः दृश्यते ।
निरीश्वरवादितैव नास्तिकतायोः षष्ठं कारणमिति प्रदर्शितपूर्वमेवास्माभिः । यदि निरीश्वरवादितव 'नास्तिकतायाः प्रमाणमित्युच्यते चेत् सर्वाण्यपि भारतीयदर्शनानि निरीश्वरवादमूलकत्वात् नास्तिकदर्शनकोट्यां प्रतिष्ठापनीयानि भवेयु' । यतो हि 'मोक्षः एव परमपुरुषार्थः', इति चार्वाकान् विहाय सर्वेषामपि दर्शनसिद्धान्ताविष्कर्तृणामाघोषः। भारतीयदर्शनशास्त्रस्यतिह्यावलोकनेन सविशदं भवति यत् निःश्रेयसाधिगमः एवान्तिम लक्ष्यं संसारिणः न तु ईश्वरवादिनामभिमतस्येश्वरप्राप्तिरिति । मोक्षमधिगन्तुमीश्वरानुग्रहस्यावश्यकतामेव नानुभूयन्त प्राचीनदार्शनिकाः । 'उद्धरेदात्मनात्मानं'। इत्युदघोषयन्तः स्वप्रयत्नेनैव मोक्षावस्थां प्राप्तुं शक्यतेति सर्वेषामपि दर्शनानां मूलधारणा वर्तते । ईश्वरवादिनामभिमतो ईश्वरः' सर्वरास्तिकदर्शनैरपि नाङ्गीकृतः । प्राचीनन्यायवैशेषिकाः गौतमकणादयोऽपि पदार्थतत्त्वमीमांसाप्रसङ्गे ईश्वरस्य कृते स्थानमेव न दधुः । एवं सांख्य-योग-मीमांसा-वेदान्त दर्शनेष्वपि नेयायिकानां संमतो नाङ्गीकृतो ईश्वरः । यद्यस्माभिः ईश्वरवादिनापभिमतस्येश्वरस्य स्वरूपवर्णनं मनसि निधाय निक्षिप्यते चक्षुः तत्तदर्शनसूत्रप्रन्थेषु, तदा विचारसरणिरियं दृष्टिगोचरा भवति ।
ईश्वरवादिनां मते तु ईश्वर. सृष्टिकर्ता, एक , सर्वज्ञः, कर्म फलाध्यक्षः, अनुग्रहकर्ता यस्य कृपां विना मोक्षो नाधिगम्यते, वेदानां रचयिता च ।10 परमेताइयेश्वरकल्पना न्यायवैशेषिकसंमता, प्राचीनन्यायवैशेषिकसांख्य-योगमीमांसावेदान्तादिग्रन्थेषु नोपलभ्यते । एतादृशेश्वरस्यास्तित्वाङ्गीकारश्च कल्पनागौरवदोषदूषितो भवति दर्शनकाराणामनुरोधेन तत्त्वमीमांसाप्रसङ्गे । अतः सर्वाण्यायासिकदर्शनानि निरीश्वरवादीनि दर्शनान्यत्र । प्रतिपादितपूर्वमेवमरमाभिः यत् सकलान्यपि दर्शनानि चार्वाकदर्शनं विहाय मोक्षः एव परमपुरुषार्थः इति संगन्यन्ते । गौतमस्तु षोडशपदार्थानां सम्यग्ज्ञानात् मोक्षप्राप्तिर्भवतीति स्पष्ट मुद्घोषयात प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टात सिद्धान्तअवयव तर्क-निर्णय बाद जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् निःश्रेयसाधिगमः, इत्यादिना ।'' गौतमेन स्वीकृतषोडशपदार्थेषु नैव निर्दिष्टो ईश्वरः । मोक्षम धगन्तुमेतेषां पदार्थनामेव तत्त्वज्ञानं निदानमिति मनुते सूत्रकारः। अन्यच्च मोक्षप्राप्तये ईश्वरानुग्रहस्यावश्यकता नास्ति । गौतममतानुसारेण स्वप्रयत्नेनैव मोक्षसिद्धिर्भवतीति तन्निर्दिष्ट सूत्रान्तराट् स्पष्टी भवति । तन्मते "दु ख-जन्म प्रवृत्तिदोष-मिथ्याज्ञानानां उत्तरोत्तरापाये तदनन्तरापायादपवर्ग: 8 भवति । सुखदःखकारण
75. भगवद्गीता-अ. VI-लोक-5 76. उदयन-न्यायकुसुमाजलो-अ-5 77. न्यायसूत्र-1-1-1 78. न्यायसूत्रभाष्य -1-1-2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org