Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 236
________________ अनेकान्तवादस्य स्वरूपम् 227 परपर्यायाः व्यावृत्तिरूपाः अनन्ताः भवन्ति । एवं सुवर्ण घटे द्रव्यापेक्षयानन्ताः स्वपरपर्यायाः भवन्ति ।11 एवमेव घटः स्वक्षेत्रेऽस्ति परक्षेत्रे नास्ति । तत्रापि तिर्यग्लोकवर्तित्वेनास्ति, ऊर्ध्वादिलोकवतित्वेन नास्ति । तिर्यग्लोकवयपि सः भारतवर्तित्वे न पुनः विदेशवर्तित्वादिना, अत्राप्येकरिमन्नगरे एकदेशस्थानीयतयाअस्ति न त्वन्य देशादितया । एवं क्षेत्रतोऽपि स्वपरपर्यायाः अनन्ता भवन्ति एकस्मिन्नेव घटे19 । कालदृष्ट्या यदा घटो विवक्षितो भवति तदा घटस्य स्वकालः वर्तमानकालः । परकालोऽतीतादिः । तत्र स्वकाले वर्तमानकालेऽस्ति परकाले अतीतादि काले नारित । वर्तमानकालेऽपि वासन्तिकयास्ति न पुनरन्यर्तुनिष्पन्नतया । तत्रापि नवत्वेन विद्यते, न पुनः पुराणत्वेन । तत्राप्यद्यतनत्वेनास्ति, अन्यक्षणतया नास्ति । एवं च परवापरत्वाभ्यां सर्वद्रव्येभ्यः क्षणलवघटी दिनमासवर्षादिभिः घटस्य पूर्वत्वेन परत्वेन चानन्तभेदेनानन्तभेदाः काल्तो भवन्ति । भावतोऽपि सः घ:: पुनः पीतवर्णेनास्ति, नीलादिवर्णैर्नास्ति । पीतोऽपि सोऽपर. पोतद्रव्यापेक्षयेकगुणपीतः, स एव च तदपरापेक्षया द्विगुणपीतः, स एव च तदन्यापेक्षया त्रिगुणपोतः, एवं तावद्वक्तव्यं यावत्कस्यापि पीतद्रव्यस्यापेक्षयानन्तगुणपीतः । अस्यायं भावः यत् तारतम्यभावेन पीतत्वस्याप्यनन्तभेदाः सम्भवन्ति । ते तस्यानन्तस्वपर्यायाः। पीतवर्णतरतमयोगेनानन्तभेदेभ्यो नीलवर्णादिभ्यो व्यावृत्तिरूपाः अनन्ताः परपर्यायाश्च । एवं भावतोऽप्यनन्तस्वपरपर्यायाः घटे सम्भवन्ति ।। एवमेव सामान्यतो, विशेषतो, परिणामतो, कर्मतश्चानन्तधर्माः एकस्मिन्नेव घटे प्रत्यक्षीकर्तु शक्यन्ते । अतीतादि कालेषु ये ये विश्ववस्तूनामनन्ताः स्वपरपर्यायाः भवन्ति तेषु, एकद्विव्याद्यनन्तपर्यन्तधर्मः सहशस्य घटस्यानन्तभेदसादृश्यभावेनानन्ताः स्वधर्माः सामान्यतो भवन्ति1+ । विशेषतस्याप्यनन्ता. धर्माः घटे भवन्ति । घटोऽन्या. नंतद्रव्यापेक्षयकेन, द्वाभ्यां त्रिभिर्वा यावदनन्तैर्वा धर्मैः विलक्षणः सन् व्यावृत्तश्च भवति तेभ्यः । अनंतद्रव्यापेक्षया घटस्य स्थूलता, कृशता, समता, विषमतादि प्रत्येकमनन्तविधाः धर्माः भवन्ति । ततः स्थूलतादिद्वारेणाप्यनन्ता धर्माः भवन्ति । संबन्ध तोऽप्यनन्तकाले नानन्तः परवस्तुभिः सम प्रस्तुतघट स्याधाराधेयभावोऽनन्तविधो भवति । एवं जन्यजनकत्वनि मेत्तनमत्तिकादि संख्यातीतसंबन्धैरपि प्रत्येकमनन्ता धर्माः घटस्य ।18 परिणामतश्चापि घटेऽनंता स्वधर्माः परधर्माश्च भवन्ति । तत्तद्रव्यापेक्षया 11. षड्दर्शनसमुच्चयटीका, पृ. 329-330. घृ. 331. पृ. 332. पृ. 335. पृ. 336. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302