Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 235
________________ 226 Traverses on less trodden path... जैनानां मतानुसारेण प्रत्यक्षप्रमाणस्य परोक्षस्य च ग्राह्यमनन्तधर्मात्म कमेव वस्तु । वस्तुसंबन्धिज्ञानमस्माकमन्धगजन्याय इवैकान्तिकं भवति । अतः वरुवनन्तधर्मात्ममिति मत्वैव व्यवहारोऽनेकान्तवादः । वस्तुनोऽनेकान्तात्मकता तु सर्वदा सर्वप्रमातृभिरनुभूयत एव । कथमेकस्मिन्नेव वस्तुनि मिथो विरोधिनोऽनन्तधर्माः भवितुमर्हन्तीति शङ्का समुत्पद्यत । परमियं शङ्का निरास्पदेव । परस्परापेक्षया एकस्मिन्नेव वस्तुन्यनेकधर्माः भवन्ति, यथा एकस्य देवदत्तस्य पिता, पुत्रो, भ्राता, भागिनेयः, इत्येवमादयः संबन्धाः जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्तेऽपणाभेदात् । पुत्रापेक्षया पिता, पितृपेक्षया पुत्रः इत्येवमादिः । तथा द्रव्यमपि सामान्यापेक्षया नित्यं, विशेषणार्पणयानित्यमिति नास्ति विरोधः । अत एवोक्तं तत्त्वार्थराजनातिके यत् 'अर्पणाभेदादविरोधः, पितापुत्रादि संबन्धवत् । अत एव हेमचन्द्राचारयुक्तं यत जगतीतले न तादृशं किमपि वस्तु यदनेकान्तमुद्राङ्कितं न भत्र त । आदीपमाव्योम सकलं वस्तु नित्यानित्यस्वभावरूपानेकान्तमुदाङ्कितं दृश्यते--'आदीपमाव्योम समस्वभावं स्थाद्वादमुद्रानति भेदि वस्तु । तन्नित्यत्व में कमनित्यानन्यदिति वदाज्ञ द्विषतां प्रलापाः' इत्यादिना । प्रमाणप्रमेयरूपे वस्तुनि स्वपरद्रव्यापेक्षया क्रमाक्रमभावे नानन्तधर्माणां प्रतीतिर्भवति । स्वरूपग्रहणं पररूपभावाग्रह गच्च वस्तुनः वस्तुत्वम् । तदेवोक्तमकलङ्कदेवैः "स्वपरात्मोपादानापोहनः व्यवस्थापाद्यं हि वस्तुनो वस्तुत्वं 10' इति । एकस्मिन्नेव वस्तुन्यनेके धर्माः स्वारपर्यायः भवन्तीति, सर्वप्रसिद्धमनेकान्तात्मकतां सौवर्ण घटदृष्टान्तेन सविस्तरं प्रदर्शयितुं शक्यतेति जैनदर्शनकाराणामुद्घोषः। सुवर्णघटो हि विवक्षितो स्वद्रव्यक्षेत्रकाल भावैरस्ति परद्रव्यक्षेत्रकालभावश्च नास्ति । घटो स्वरूपेणास्ति पररूपेण च नास्ति, घटरूपेगास्ति पररूपेण कम्बलरूपेण वा नास्ति । स्वक्षेत्रे स्वस्थाने भूतलादावस्ति, न तु परवस्तूनां पटादीनां स्थाने कुड्यादौ, स्वकाले वर्तमानकालेऽस्ति न त्यतोतानागतकाले । स्वभावेन पीतवर्णनास्ति परभावैः श्वेतादिवणः नास्ति । ___ षड्विधद्रव्येषु घट: पुद्गलद्रव्येऽन्तर्भवति । यदा घटो वर्ण्यते पुद्गलद्रव्यापेक्षया तदा घट सत् भवति, सः पौद्गलिकद्रव्यत्वेनास्ति. धर्माधर्माकाशादि द्रव्यैस्तु नास्ति । पोद्गलकोऽपि स घटः पार्थिवत्वेनास्ति न पुनरप्यादित्वैः । पार्थिवोऽपि घटः धातुरूपतयास्ति न पुनः मृत्वादिभिः । धातुरूपोऽपि स घटः सौवर्णत्वेनास्ति राजतत्वादिभिर्नास्ति । सौवर्णोऽपि स घटो घटितसुवर्णात्मकत्वेनास्ति, अघटितसुवर्णात्मकत्वादिना नास्ति । पृथुबुनायाकारेणास्ति स घटः, मुकुटादित्वेन नास्ति । एवं प्रकारेण येन येन पर्यायेणास्ति इत्युच्यते स तस्य स्वपर्यायो भवति, यः यैः व्यावृत्यते स घटः, ते सर्वे 7. सर्वार्थसिद्धि-v. 32 8. तत्त्वार्थ राजवार्तिक, पृ. 36. 9. अन्ययोगव्यवच्छेदिका, लोक 5. 10. तत्वार्थ र जवार्तिक, पृ. 24. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302