________________
20
जैनदर्शनस्य आस्तिकता वा नास्तिकता
सामान्येन भारतीयदर्शनानि 'आस्तिक दर्शनानि' 'नास्तिकदर्शनानीति' द्विधा विभक्तानि विद्यन्ते । तत्र न्याय-वैशेषिक-सांस्य-योग-पूर्वमीमांसा-वेदान्तदर्शनानि च आस्तिकानीति, चार्वाक-बौद्ध-जैनदर्शनानि नास्तिकानीति च व्यपदिश्यन्ते ।। चार्वाकबौद्धजैनाः ईश्वरस्य जगत्कर्तृकत्वं नानुमन्यन्ते नापि च वेदप्रामाण्यं उरीकुर्वन्तीति ते नास्तिकाः इति परिगण्यन्ते व्यावहारिकदृष्ट्या ।
परमिदं महद्दौर्भाग्यमिति वक्तव्यं भवति यत् जैनदर्शनप्रतिपादितमूलभूततत्त्वानि अविगणय्य चार्वाकबौद्धमताभ्यां सहैव जैनदर्शनमपि नास्तिकदर्शनमिति व्यवहियते । यदा वयं दार्शनिकदृष्टयाऽस्तिकनास्तिकशब्दार्थविषये विचारयामो निष्पक्षपातिना मनसा, कुर्मश्च तस्य ऐतिह्यावलोकनं सूक्ष्मेनिकया, तदेदं सुस्पष्टं संबोभवीति यत् जैनदर्शनं न कदापि नास्तिकपदव्यपदेशभाग भवति, इयं धारणा च सांप्रदायिकतायाः विद्वेषमूलका न तु दर्शनशास्त्रमूलका इति । जैनदर्शनस्य तलस्पर्शीज्ञानाभाव एव निदानमित्यत्र अनिवार्यतया वक्तव्यं भवति । दार्शनिकदृष्ट्या स एव नास्तिकपदव्यपदेशा) यः देहातिरिक्तस्य आत्मनः अस्तित्वं निराकुरुते, परलोक-पाप-पुण्यादिक न मनुते, कर्मसिद्धान्तं मोक्षावस्थां च नाङ्गीकरोति । अयमेवार्थः नास्तिकशब्दस्य, दर्शनशास्त्रसंमतः इति प्राचीनसर्वदर्शनेतिहासावलोकनेन ज्ञायते । व्यावहारिकदृष्ट्या यः शास्त्रोक्तान कुलाचारान् न प्रतिपालयति, ईश्वरे न विश्वसिति यथेच्छ वा व्यवहरति सः 'नास्तिकः' इति जनैः व्यपदिश्यते । व्यवहारे नास्तिकशब्दव्यपदेशः प्रायः अनाचार. बोधकत्वमूलकः इति निविवादम् । परं व्यावहारिकोऽयमर्थः दर्शनशास्त्रसंमतो न भवितुमर्हति । दर्शनशास्त्रेषु प्राधान्येन 'अहं' प्रतीतिविषयः आत्मा एव प्रतिपाद्यो विषय , तदनुषङ्गतोऽवशिष्टं सर्वमिति जानन्त्येव शास्त्रविदः । तस्मादयं नास्तिकदर्शनव्यपदेशोऽपि आत्मविचारविषयक एव भवितुमर्हति । नेकविधदर्शनकारैः ये आत्मविषयक विचाराः प्रदर्शिताः तानवलम्ब्यैव आस्तिकनास्तिकशब्दव्यपदेशः यक्तिसङ्गतं स्यादिति मन्यामहे वयम । दर्शनसिद्धान्तानां आविष्कर्तृणां दार्शनिकाना मतानुरोधेन ईश्वरजगत्कर्तृकत्वं वेदप्रामाण्यञ्चाङ्गीक्रियमाणाः एवास्तिकाः त्वन्ये नास्तिकाः इति कथन 1 (a) नास्तिकान् वेदबायां स्तान् बौद्वलोकायताहतान-सर्वसिद्धान्तसंग्रह-v. 1. (b) एते चार्वाकास्तथा चतुर्विधा बौद्धाः अहंताश्चेति षण्णास्तिका इत्य ख्यायन्ते ।
-सर्वदर्शनसंग्रह, उपोधात. पृष्ठ 99. T-27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org