SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Traverses on less trodden path ... न कदापि सामजस्यं आवहेत् | आस्तिक-नास्तिकस्यापि दर्शनशास्त्रीय विवेचनेन प्रस्फुटं भवति यत् आस्तिकता वा नास्तिकता ईश्वरस्त्रष्टिकर्तृत्ववेदप्रामाण्यस्वीकारमात्रेण न भवितुमर्हति । तत्र व्युत्पाद्यमानस्य नास्तिकशब्दस्य नास्तीति मतिर्यस्य स इत्यर्थः भवति । तत्र किं नास्ति इत्यपेक्षयां आत्मा नास्तीति मन्तव्यं आत्मविषयक - विचारप्राधान्यान् सर्वदर्शनानाम् । अतः शरीरानिरिक्तस्यात्मनो स्वीकरणात् आस्तिकत्वं तदस्वीकरणात् नास्तिकत्वमिति मन्तव्यम् । 210 संप्रति प्राचीनकाले आस्तिकनास्तिकशब्दयोः उपयोगः केषु केष्वर्थेषु कृतः इति संविवेच्य सप्रमाणं, तदाधारेणैव जैनदर्शनस्य आस्तिकतां प्रदर्शयितुं, समीहामहे । उपनिषद्द्भ्यः त्रयं जानीमहे यत् 'मृत्योः पश्चात, शरीरेन्द्रयमनोबुद्धिव्यतिरिक्तो देहान्तरसंबन्ध्यात्मा अस्तीति मन्यमानः अस्तिकः, (नाम एवं विधो आत्मा अस्तीति स्वीकुर्वाणः) देहातिरिक्तात्मास्तित्वं च अपनुवानः नास्तिकः इति । विचारधारेयं कठोपनिषदि प्रकटीकृतास्ति 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके इत्यादि शब्दैः । उपनिषदामध्ययनेन इदमप्यनुमातुं शक्यते यत् 'सवादी, यः प्रागुत्पत्तेः पूर्व इदं दृश्यमानं जगत् एकमेवाद्वितीयं सदासीत्, तस्मात्सतः इयं सृष्टिः इति वदति सः आस्तिकः, असद्वादी, यः प्रागुत्पत्तेः पूत्रं असत्तत्त्रमेवाद्वितीयमेकमासीत तस्मादसतः सज्जायतेति वदति सः 'नास्तिकः' इति । तदुक्तं छान्दोग्योपनिषदि, 'सदैव सौम्येदमप्र आसीदेकमेवाद्वितीयम्, तद्धैके आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् । तस्मादसतः सज्जायत। अद्वैतवेदान्तस्य सिंहनाद कर्तारः श्रीमदाद्यशंकराचार्याः अप्यमुमेवार्थं आस्तिकनास्तिकशब्दयोः अनुमन्यन्तेति तैः कृतभाष्यानुसारेण वक्तुं शक्यते । तेषां मते वैनाशिकचौद्धा अपि नास्तिकाः यतोहि तेऽपि असतः सज्जायतेति मन्यन्ते । भाष्ये तैः स्पष्टमुक्तं यत, एके वैनाशिकाः आहुर्वस्तु निरुपयन्तोऽसत्सद्भावमात्रं प्रागुत्पत्तेरिदं जगदेकमेव अद्वितीयमासीदिति सदभावमात्रं हि प्रागुत्पत्तेस्तत्वं कल्पयन्ति बौद्धाः । free: वाक्यस्यास्यैव अर्थान्तरोऽपि निष्पद्यते यत् असतः जडतत्त्वात् सज्जायते चैतन्योत्पत्तिः भवतीति मन्यमानाः असद्वादिनः नास्तिकाः । नागोजीभट्टस्य प्रसिद्धटीकाकारस्य दुर्गासप्तशतीटीकायां उक्तिः अमुमेवार्थ दृढीकरोति सः कथयति यत्, सन्- ब्रह्मवर्ग:, असद् जडबर्गः इति । वैय्याकरणाः पाणिनेः समये परलोकास्तित्वं पुण्यपापादिकं मन्वानः 'आस्तिकः' परलोकाभावं पुण्यपापादिकं अपनुवानः 'नास्तिकः ' इति व्यपदिश्यते स्मेति, 'अस्तिनास्ति दिष्टं मतिः', " इति सूत्रेणावगन्तुं शक्यते । 2. कठोपनिषत् I 1 - 20. 3. छान्दोग्योपनिषत् - VI- II-1. 4. शांकरभाष्य - छान्दोग्योपनिषद् - VI-II-1. 5. दुर्गासप्तशती -1-62. 6. अण्टाध्यायी- 4-4-60. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy