________________
जैनदर्शनस्य आस्तिकता वा नास्तिकता
211 वृत्तिकारोः अपि 'अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः, नास्तीति मतिर्यस्य सः नास्तिक, इत्यवदन् ।' यास्काचार्या अपि स्वकीयनिरुक्तग्रन्थे, 'प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेसुः इत्यादिना परलोकसत्तायां श्रद्धारहितत्वमेव नास्तिकता इत्यब्रुवन् ।
कलिकोलमर्वज्ञहेमचन्द्राचार्या अप्यस्मिन्नेवार्थे नास्तिकशब्दं प्रयुजते इति मल्लिषेणाचार्याणां, " नास्तिकास्तिक देष्टिक' इति निपातनात् नास्तिकः, नास्ति परलोकः पुण्यं पापं वा मतिरस्य 10 इत्यादि वचनैः स्फुटं भवति ।
महाभारते नास्तिकतायाः लक्षणं परमरमणीयतया प्रतिपादितं व्यासमहर्षिभिः । 'मोह' एव नास्तिकतायाः परमकारणमिति सङ्गिरन्ते महाभारतकाराः। तैरुच्यते यत् -
'प्रज्ञा नाशात्मको मोहः तथा धर्मार्थनाशकः ।
तस्मानास्तिकता चैव दुराचारश्च जायते ॥11 अस्थायमाशयः यदतिमोहाभिभूताः नित्यानित्यवस्तुविवेकरहिता' कुपथे पदमर्पयन्तः धर्मरहस्यं आत्मतत्वदिकं चाविगणय्य स्वसुखोपभोगार्थ करहिंसादिकं दुराचारकचा चरन्ति तादृशा एव कुपथगामिनः नास्तिकपदव्यपदेशभाजो भवन्तीति ।
स्मृतिसाहित्यकाले आस्तिक-नास्तिक शब्दार्थो परिवर्तितो बभूव । समयेऽस्मिन् वेदप्रामाण्यमङ्गी कुर्वाणो आस्तिकः, नाङ्गीकुर्वाणो 'नास्तिकः' इति व्यपदिश्यते स्मेति, नास्तिको वेदनिन्दक:12 इति मनोः उक्तया स्पष्टं भवति | कालेऽस्मिन् आत्म पुनर्भवादि दार्शनिकविचारानवलम्च्य, 'आस्तिक-नास्तिकः' इत्यादि दार्शनिकदृष्टिः विलुप्ताऽभवत् । सांप्रदायिकदृष्टेः महत्त्वं दरीदृश्यते स्मृतिकाले । अतः दार्शनिकदृष्ट्या विचारस्यास्य तादृशं महत्त्वं नास्त्येव । तत्पश्चात् नैयायिकानां प्रभावाधिक्येन ईश्वरस्य जगकर्तृकत्वं मन्यानो ईश्वरवादी 'आस्तिकः निरीश्वरवादी 'नास्तिकः' इति व्यवहारः प्रचलितो बभूव । उदयनाचार्यः न्यायशास्त्रस्य धुरंधरैः 'कार्यायो जनवृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यान् संख्या विशेषाच्च साध्यो विश्वविदव्ययः'13 इत्यादि बहूनि प्रमाणा'न समुपस्थापितानि ईश्वरस्य जगत्कर्तृकत्वादि सिद्धये । तत्समयादारभ्य ईश्वरास्तित्वं निराकुर्वागः नास्तिकः' इति प्रथा प्रारब्धा इति अनुमातुं शक्यते । 7. कैय्यटाचार्याः पातजलपहाभाष्यस्य प्रदीपटीकायां एवं विलिखन्ति- 'अस्ति इत्यस्य इति
परलोककर्तृका सत्ता विज्ञेया, तत्रैव विषये लोके प्रयोगदर्शनात् । तेन परलोकोऽस्तीति
मतिर्यस्य सः आस्तिकः, तद्विपरीतो नास्तिकः ।।-4-4-60. 8. यास्कनिरुक्तम्-6-32. 9. हेमसूत्रम् -6-4-66. 10. स्याद्वादमंजरी-20. 11. महाभारत शांतिपर्व--123-16. 12. मनुस्मृति-II-2. 13. न्यासकुसुमान्जलि-v-1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org