________________
212
Traverses on less trodden path... सूक्ष्मेक्षिकयानया समीक्षया इदमत्र सुस्पष्टं भवति यत् नैयायिकानां प्राबल्यकाला. दारभ्य निरीश्वरवादिता एव नास्तिकतेति व्यवहार समारब्धः तत्पूर्व उपनिषदादि काले आस्तिकतया वा नास्तिकतया साकं ईश्वरास्तित्वस्वीकारस्य अस्वीकारस्य च न कोऽपि संबन्धः आसीदिति ।
संप्रति आस्तिकनास्तिकविषयमधिकृत्य प्रदर्शितान् विचारान् एकैशः संपरीक्ष्य जेनदर्शनं यथातथ्येन नास्तिकपदव्यपदेशा) भवितुमर्हति न वेति निर्णेतव्यम् । ___ दर्शनसाहित्यस्यैतिह्यावलोकनेन षद प्रमाणानि नास्तिकतायाः निर्धारणे समुपलभ्यन्तेत्यस्माभिः प्रतिपादितं खलु । तानि च आत्मास्तित्वनिरोकरणं, जडतत्वाच्चैतन्यं समुत्पद्यतेति प्रतिपादनं, परलोकपापपुण्यमोक्षादीनां प्रत्याख्यानं, मोहाभिभूतत्वं, वेदप्रामाण्याग्रहणं, निरीश्वरवादित्वं चेति ।
प्रमाणान्येतानि प्रदर्शितानि सम्यक् स्मृतिपथमानीय, सर्वविधरीत्या विचार्यमाणे भारतीयदर्शनेषु चार्वाकदर्शनमेवैकं नास्तिकशब्दव्यपदेशाहः भवतीति दर्शनधुरीणैः स्वीकर्तव्यमेव भवति । नास्तिक शब्दलक्षण मनसि निधाय निष्पक्षपातिना च मनसा चार्वाकजैनदर्शनयोः प्रतिपादितसिद्धान्तानां तुलनया जैनमतस्य परमास्तिकता प्रस्फुदी भवति ।
दर्शनशास्रपारावारीणानां मतानुरोधेन जैनदर्शनं नास्तिकदर्शनमिति कथनं युक्ति संगतं न भवतीति सप्रमाणं प्रदर्शयितुं नास्तिकस्य चार्वाकस्याभिमतसिद्धान्तप्रतिपादनं समापद्यते, तद्विशदीकरणमप्रासङ्गिकं न भवेदत्र ।
चार्वाकास्तु देहातिरिक्तात्मास्तित्वं, परलोकास्तित्वं, मोक्षावस्थाश्च नाङ्गीकुर्वन्ति, स्वेच्छाचरणं कामाचरणं वा मुक्तकण्ठेनानुमन्यन्तेति सुविदितमेव सर्वदर्शनशास्त्रविदाम् ।
__ आत्मास्तित्वविषये चार्वाकाः एवं सङ्गिरन्ते-प्रत्यक्षदृष्टिगोचरीभूतदेहातिरिक्तस्या. न्यस्य कस्यापि अनुगम्यविशिष्टात्मनः अस्तित्वं नास्ति । चैतन्यविशिष्ट देह एवात्मा । कायाकारेण परिणतपृथिव्यादिभूतचतुष्टयमेव चेतनः, एकैकभूतस्य चैतन्याभिव्यञ्जकाभावेऽपि समुदितस्य व्यञ्जकत्वं यथा मदशक्तिः एकैकपूगीफलादिना न भवति चूर्णपर्णफलेभ्यश्च भवति तद्वत् ।। B पश्यामि श्रुणोमीत्यादि प्रतीत्या मरणपर्यन्तं यावन्ति इन्द्रियाणि तिष्ठन्ति तान्येव आत्मा ।11 प्राणापानाद्यधिष्ठानाद् कायादेव युक्तं ज्ञानं जायते न तु ज्ञानाधारभूतो शरीराद्भिन्नोऽस्त्यात्मा ।' अहं. स्थूलः, कृशोऽस्मीति सामानाधिकरण्यतः, देहस्थौल्यादि योगाच्च,18 'चेतनविशिष्टदेह एव आत्मा' इति निगदन्ति । 14. बार्हस्पत्यसूत्र-4 15. जडभूतविकारेषु चैतन्यं यत्त दृश्यते ।
तांबूलपूगचूर्णानां योगाद्राग इवोत्थितः।। सर्वासिद्धान्तसंग्रह-7. 16. बार्हस्पत्यसूत्र-36 17. कायादेव ततो ज्ञान प्राणापानाधिष्ठिनाद् युक्तं जायते-बार्हस्पत्यसूत्र-22 18. सर्वदर्शनसंग्रह-चावकिमत-1/63-64.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org