SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ जैनदर्शनस्य आस्तिकता वा नास्तिकता 213 "शीलाकोऽपि सूत्रकृतांगटीकायां पूर्वपक्षरूपेण चार्वाकमतमेवं प्रस्थापयति यत्,' पृथिव्यादीनि पञ्चमहाभूतानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रपो भूता व्यतिरिक्तात्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित् परिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थः अस्ति ।19 अनेनेदं स्पष्टं यत्, 'आत्मास्तित्वं देहातिरिक्तं नाङ्गीकुर्वन्तीति चार्वाकाः नास्तिकाः' इति । अपि च चार्वाकाः जडतत्त्वात् भूतचतुष्टयादि संयोगात चैतन्यं उत्पद्यतेति निगदन्ति । अतः ते असद्वादिनः, तस्मान्नास्तिकाः । परलोकिनः अभावात् परलोकोऽपि नास्ति । न कोऽपि मृतः पुनरागत्य स्वकीयं स्वर्गीयं पारलौकिकं सुखं प्रत्यक्षमनुभूय संवदति 11 वर्तमानशरीरोत्पत्तः पूर्वमात्मनः अस्तित्वं नास्ति, शरीरनाशानन्तरमपि आत्मा न भवति, अतः आत्मनः परलोकगमनमः सिद्धमेव । एतावानेबलोकोऽयं यावानिन्द्रियगोचरः । इहलोकात्परो नान्यःरवर्गोऽस्ति नरको न च" + इत्यादि वचनैः परलोकप्रत्याख्यानं कुर्वन्ति । पुण्यपापे न कस्यापि । वैषयिकसुखमेव स्वर्गः, दुःखमेव निरयः, इत्यादिना पापपुण्यादिकं न मन्यन्ते । इन्द्रियोपभोगजनितपशुसुलभं वैषयिकं सुखमेव परमपुरुषार्थ मन्वानाः मरणमेवापवर्गः इति वदन्तः मोक्षावस्थां निराकुर्वन्ति । B यावत्पर्यन्तं भूतचतुष्टयसंघात् समुत्पन्न चैतन्यं शरीरे वर्तते तावत्पर्यन्तमेव नरः स्वेच्छया चेष्टते । चैतम्यनाशानन्तरं न किमपि अवशिष्टं भवति । अतः पुनर्जन्म नास्तीति वदन्ति । अतः परलोकपापपुण्यमोक्षावस्थादोनां अनङ्गीकारेण नास्तिकाः इति निश्वप्रचम् चार्वाकाः एव । 19. सूत्रकृताङ्गटीका-1-1-1-7-8 20. पृथिव्यप्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, तेभ्यश्चतन्यम्-बार्हस्पत्य सूत्र-2-3. 21. A 'नास्तिपरलोकः,' बार्हस्पत्यसूत्र-29. ___B यदि गच्छेत्परं लोकं देहादेव विनिर्गतः। कस्माद्यो न चायाति वन्धुग्नेहसमाकुल:-बार्हस्पत्यसूत्र-46. 22. तत्वसंग्रह-1857. 23. षड्दर्शनसमुच्चय-81-हरिभद्र. 24. सर्वसिद्धान्तसंग्रह-8. 25. A. मृत्युरेवापवर्ग:-बार्हस्पत्यसुत्र-30. _____B. न स्वर्गो नैव मोक्षोऽत्र लोकाः क्लिश्यन्ति वै वृथा-पद्मपुराण-सृष्टिखण्ड, ___C. अनालिङ्गनाजन्यं सुखमेव पुमर्थता 1-सर्वदर्शनसंग्रह. 26. तइस्ति चेतनो यावत् चेष्ट्यते तावदिच्छया । चेतनस्य विनष्ठस्य विद्यते न पुनर्भवः । त्रिषशिलाका-338. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy