________________
214
Traverses on less trodden path ..
मोहाभिभूतत्वं चतुर्थ कारणं नास्तिकतायाः इत्युक्तपूर्वमेवास्माभिः । चार्वाकास्तु, 'यावज्जीवं सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्थीभूतस्य देहस्य पुनरागमन कुतः । इति उद्घोषयन्तः मोहात, तत्त्वं अजानानाः पापाचरणं, अनाचाररुचाचरन्ति । अतः ते एव नास्तिकाः । ___'यो वेदस्य कर्तारो भण्डधूर्तनिशाचरा' इत्यादिना बुद्धिषौषहीनः आजीविकार्थ वेदरचना कृतेति कठोरशब्दैः वेदनिन्दा कुर्वन्ति, वेदनिन्दकत्वात् तेषां नास्तिकता।
'प्रत्यक्षमेवैकं प्रमाणं' इति 9 सिद्धान्तमङ्गीकृत्य नास्ति सर्वज्ञः प्रत्यक्षादिगोचरातिक्रान्तत्वादिति , ईश्वरास्तित्वमेत्र निराकुर्वते चार्वाकाः । अतः ईश्वरास्तित्वनिराकरणात नास्तिकास्ते । इदं सुस्पष्टं यत् षड्भिरपि कारणैः चार्वाकाः नास्तिकपदव्यपदेशभाजो भवन्ति ।
सम्प्रति जैनदर्शनाभ्युपगतसिद्धान्तेषु निक्षिप्यते समालोचनात्मकं चक्षुः येन सुस्पष्टं भवेद् जैनदर्शनाय आस्तिकता पूर्वप्रदर्शितषभिरपि कारणैः । विद्यानंदि31, प्रभाचद्र, हेमचन्द्र 5, मल्लिषेण, गुणरत्नादयो, जैनदर्शनधुरंधराः स्वग्रन्थेषु दर्शनान्तराणीव चार्वाकदर्शनं पूर्वपक्षरूपेण संस्थाप्य कठोरशब्दैः सप्रमाणं तत्खण्डनं विधाय नास्तिकदर्शनमिति स्पष्टमुद्घोषयन्ति ।
प्रत्यक्षमेव प्रमाणमिति सिद्धान्तमभ्युपगम्य प्रत्यक्षप्रमाणागोचरत्वादात्म-पापपुण्यपरलोकमोक्षादीनां निराकरणकर्तृणां चार्वाकाणामभिमतसिद्धान्ततरोमले कुठाराघातं विधाय नास्तिकतायाः खण्डनं विधीयते जैनसिद्धान्तमर्मज्ञैर्यथा-"चार्वाकाणां प्रत्यक्षमेवेक प्रमाण. मिति कथननपि अनुमानप्रमाणमेवावलम्ब्य वर्तते । यतोहि चार्वाकः स्वसिद्धान्तस्थापनाय काश्चन युक्तयः प्रदर्शनीयाः भवन्ति याभिस्तैः प्रतिपाद्यमानप्रत्यक्षप्रमाणिकतैव सिध्येत । यदि चार्वाकाः युक्त्या प्रत्यक्षप्रमाणतां साधयन्ति चेत , 'साधनात् साध्यविज्ञान', इत्यनुमानप्रमाणेनैव प्रत्यक्षमेवैकं प्रमाणमिति मतस्य तस्य मूलोच्छेदो भवति । विद्या नंन्दिना स्पष्टमेतत् प्रतिपादितं अष्टसहस्त्र्यां, यत् प्रत्यक्षं प्रमाण अविसंवादित्वात्, अनुमानादिकं अप्रमाणं विसंवादित्वादिति लक्षयतोऽनुमानस्य बलात् व्यवस्थिते न प्रत्यक्षमेकमेव प्रमाणमिति व्यवतिष्ठते । अनेन तेषां प्रत्यक्षप्रमाणगोचरातिकान्तत्वात आत्म-पलोकादिनिरासरूपः प्रजल्पोऽपि निरस्तो भवति ।
27. बार्हस्पत्यसूत्र 45. 28.
48. 29. . 25. 30. चार्वाकषष्टि-परिशिष्ट-७९ 31. अष्टसहस्री-पृ. ३५-४० 32. प्रमेयकमलमार्तण्ड-पृ.१०.१२ ;
न्यायकुमुदचन्द्र-९७-१०१.
33. अन्य योगव्यबच्छेदिका-श्लोक २० 34. स्याद्वादमञ्जरी १९२-१९६ 35. षड्दर्शनसमुच्चयटीका पृ 215-234. 36. अष्टसहस्री-प. 95.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org