________________
जैन दर्शनस्य आस्तिकता वा नास्तिकता
215 अधुना तु नास्तिकतायाः षट्कारणान्येवावलम्ब्य जैनदर्शनाभ्युपगतसिद्धान्तान् प्रतिपाद्यैकैकशः प्रदर्शयामो परमारतकता जैनदर्शनस्य ।
देहातिरिक्तात्मनोऽस्तित्वमेव अपहनुवानानां चार्वाकाणां मतं निरग्य, चिचिव परे तत्त्वे विवेकस्तद्विवेचन' इति वदद्भिः आत्माऽस्तित्वसिद्धिः प्रत्यक्षानुमानागमप्रमाणः भत्रनीति तयुक्तकं प्रतिपादितमेव जनदर्शनपारंगतैः ।
आत्मा स्वसंवेद्यः । प्रत्यक्षस्यैव तत्सद्भावे प्रमाणस्य सद्भावात् । स्वसंवेदनतः बावर्जितो सदात्मा सिद्धो भवति ।58 सुरूयहं, दुःख्यह, इच्छावानहं इत्याद्यनुपचरिताहंप्रत्ययस्य आत्मग्राहिणः संवेदनात् । अत शरीरातिरिक्तः कश्चिदेतस्यालम्बनभूतो ज्ञानवानर्थोऽभ्युपगतव्यः तस्यैव ज्ञातृत्वोपपत्तेः स जीवः एवेति सिद्धः, स्वसंवेदनप्रत्यक्ष लक्ष्य आत्मा0 | चेतनायोगेन सचेतनत्वात् शरीरस्येवाहं प्रत्ययः इत्यादि प्रलापमात्र, यनः परसहस्त्र प्रदोपप्रभायोगेऽपि स्वयमप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दष्ट्र किंतु प्रदीपस्यैव । एवं चेतनायोगेऽपि न स्वयमचेतनस्य देहस्य ज्ञातृत्वं किंत्वात्मनः एवेति तस्यैव चाहं प्रत्ययोत्पादः । अनुमानप्रमाणेनापि आत्मास्तित्वसिद्धिः शक्या । काय कारपरिणतेभ्यो भूतेभ्यश्चैतन्यं समुत्पद्यते, तद्भाव एव चेतन्याभावात, मद्यागेभ्यो मदशकिवत् इत्याद्यनुमानाद् चैतन्यस्य भूतकार्यत्वसिद्धिः भवतीति चार्वाककथनमप्यसमा असमेव । यतो हि तद्भाव एव तद्भावादिति हेतोरनैकान्तिकत्वात मृतावस्थायां तदुभावेऽपि चैतन्यस्याभावात् 1 । अनुमानप्राह्यत्वे हि सिद्धे तदन्तर्भूतत्वेनागमोपमानार्थापत्तिग्राह्यतापि सिद्धा । वायुतेजसोरभावेन मृतावस्थायां न चैतन्यमिति उच्यते चेत् मतशरीरे बस्त्यादिभिः संपादिते वायौ, तेजस्युपनीते सति वा चैतन्यं नोपलभ्यते ।।
तथा 'नास्ति जीवः' इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वनान्तरीयक एव, निषेधशब्दत्वात् । यथा 'नास्त्यत्र घटः,' इति शब्दोऽन्यत्र घटास्तित्वं संकेतयति । 37. गुगरत्नसूरि-षइदर्शनसमुच्चयटोका -पृ. २२०. 38. तस्वार्थ लोकवार्तिक, पृ. २६. 39. A प्रमेयक्रमलमार्तण्ड, पृ. ११२. ____B इदं सुखमिति ज्ञान दृश्यते न घटादिवत् । अ सुखीति तु ज्ञानं आत्मनोऽपि प्रकाशिका ।
[उद्धृतोऽयं लोकः रत्नाकरावतारिकायां-6-55. 40 षड्दर्शनसमुच्चयटीका, पृ. २२१. 41. षड्दर्शनसमुच्चयटीका, पृ. 223. 42. चार्वाका कथयन्ति यत् 'अथैषां (भूतानां) कायाकारपरिणतो चैतन्याभिव्यक्ती सत्यां तदूर्व
तेषामन्यतमस्य विनाशे' अपगमे वायोस्तेजसश्चोभयो, 'देहिनो' देवदत्तास्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति ।
-शीलाकृतसूत्रकृताङ्गटीका-1-1-1-6-8. 43. षड्दर्शनसमुच्चयटीका-224.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org