________________
216
Traverses on less trodden path... यव सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति," एवं आत्मास्तित्वं प्रमाता प्रत्यक्षादि प्रसिद्ध आत्मा B इत्यादि वचनैः सप्रमाणं प्रतिष्ठाप्य, 'उपयोगी लक्षणं, चेतनालक्षणो जीवः' इत्यादिना चैतन्यस्वरूपो जीवः इति तल्लक्षणं प्रतिपाद्य तद्विपरोतलक्षणस्त्वनीव,41 इति जडतत्त्वं निर्देशयामासुः । शरीरोत्पत्तेः पूर्वमात्मास्तित्वं अस्ति, देहनाशानन्तरभपि भवत्येव । जडतत्त्वेन सह जीवस्याविनाभावसम्बन्धो नास्त्येव । अतः 'भूतानन्वयात्सिद्धः अविनाशी सनातनश्च+8 आत्मा' इत्यादि वचनैः आत्मनः अविनाशित्वं सनातनत्वञ्चोररीकुर्वन्ति जैनाः ।
दर्शनशास्त्रस्य आत्मविचारपाधान्योत् आत्मास्तित्वाङ्गोंक्रियमाणाः, आत्मास्तीति वादिन जैनाः चार्वाकाः इव नास्तिका इति वक्तुं न शक्यते ।
जीवोऽन्यः पुद्गलस्त्वन्यः, जीवो बोधात्मकः जडवर्गस्त्वजीवः इति जैनानां मतम् । षड्दव्याणि 9 जीव-धर्माधर्मपुद्गलाकाशकालाश्च नित्यानीति मन्यन्ते परन्तु न कदापि जडतत्त्वात उत्पद्यते चैतन्यमिति कथयन्ति । 'चेतनालक्षणो जीवः' 50 इति आत्मनो लक्षणेनैव जडस्वरूपः चार्वाकाभिमतो आत्मा व्यवच्छिद्यते । अनेनापि कारणेन जैनदर्शनं नास्तिकदर्शनमिति कथनं युक्तिसंगतं नास्ति ।
जैनाः परलोकादिकं मन्यते । अधोलोक-तिर्यग्लोक-ऊर्ध्वलोकश्चेति, लोकत्रयं अङ्गीकृत्य कर्मानुसारेण भवगतिः जीवस्येति वदन्ति । आत्मा परलोकयायोत्यनुमानप्रमागेन सिद्धान्तयन्ति यथा', तदहर्जातबालकस्याद्य स्तन्याभिलाषः पूर्वाभिलाषपूर्वकः अभिलाषत्वात् , द्वितीयदिनाधस्तनाभिलाषवत् । तदिदमनुमानं आद्यस्तनाभिलाषस्याभिलाषा. न्तरपूर्वकत्वमनुमापयदर्थांपत्त्या परलोकगामिनं जोवमाक्षिपति, तज्जन्मन्यभिलाषान्तरा. भावादिति स्थितम् । पुण्यपापौ+ तत्त्वरूपेणाङ्गीकृत्य बन्धस्येव कारणं भवत इति
44. षड्दर्शनसमुच्चयटोका, पृ. 231. 45. प्रमाणन यतत्वालोकालङ्कार:-परिच्छेद-7, सूत्र-55. 46. तत्वार्थसूत्र-II-8. 47. षड्दर्शनसमुच्चयटीका, पृ. 222. 48. 'भूतानन्वयात्सिद्धः प्रकृतिज्ञः सनातनः ।-प्रमेयरत्नमाला-पृ. 81. 49. जीवाजीवाद्रव्यमिति षविधं भवति--प्रशमरति 210. 50. षड्दर्शनसमुच्चयटीका पृ. 222. 51. A. प्रशमरति-211-212 B. तत्वार्थसूत्र-अध्याय-III. 52. कर्मोदयात् भवगति:-प्रशमरति-39. 53. A गुणरत्न-षइदर्शनसमुच्चयटीको पृ. 234-235. ___B नास्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्नायं जातमात्रेऽपि
लक्ष्यते | प्रमेयकमलमार्तण्ड, पृ. 119. 54. जीवाजोवा: पुण्यपाषावनसंवराः सनिर्जरणा: ।
बन्धो मोक्षश्चैते सम्यक् चिन्त्याः नवपदार्थाः ॥-प्रशमरति:-189.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org