________________
जैन दर्शनस्य आस्तिकता वा नास्तिकता
217 वदन्ति । हेमचन्द्राचार्या अपि 'चन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षजातमिति चार्वाकाः,88 नास्ति परलोकः, इति च ते वदन्ति अतएव बार्हस्पत्यानुयायिनः नास्तिकाः इति अवदन् ।
जैनाः मोक्षमेव परमपुरुषार्थ मन्त्रानाः 'सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्ग:08 इति बदन्तः तत् अधिगहुँ रत्नत्रयमेव साधनमिति उद्घोषितवन्तः । शुभाशुभकर्म एव जन्मबन्धकारणम् । कर्मोदयात् भवगतिः भवति । कृत्स्नकर्मक्षयो मोक्षः। इति सकलविध. कर्मनाश एव निर्वाणमिति मोक्षावस्थां च अङ्गीकुर्वन्ति ।
चतुर्थकारणानुसारेण तु मोहाभिभूतत्वात् धर्मरहस्यमजानानाः स्वसुखोपभोगायामानुषीयकरहिंसादिकं कुर्वाणाः अनाचारपथे सवरमाणाः एव नास्तिकाः। मोह रागद्वेषमित्थ्यात्वाविरतिप्रमादयोगैः सह कर्मबन्धकारणं भवति । कर्मबन्धनात् संसारः, संसारनिमित्तकं पुनर्दुःखं९०, अतः मोहो परित्यक्तव्यः, मोहादेव दुराचारः प्रवर्तते इति जनाः संमन्यन्ते । जैनाना कठोरसदाचारस्तु सुप्रथितः एव । तेषां कठोरसदाचरणस्य निन्दां 'नग्न श्रमण कदुर्बुद्धे कायक्लेशपरायण । जीवकायविचारस्ते केन त्वमसि शिक्षितः1 इत्यादि शब्दैः चार्वाकाः कुर्वन्ति । चावाकाणां स्वेच्छाचरणस्य खण्डनं जनाचार्यः तीक्ष्णशब्दैः कृतं दरीदृश्यते । शीलाङ्कः सूत्रकृनाङ्गटोकायां चार्वाकास्तु वाममागिणः अनाचारप्रवृत्तकाः गुप्तरूपेण अनाचारमाचरन्तीति उद्घोषयति, यथा 'वाममार्गादौ अनाचारप्रवृत्तावपि गुप्तिकरणमिति ।
'संसारदुःखात् यो धरत्युत्तमे सुखे स धर्मः' मोक्षसुखप्राप्त्यर्थ धर्माचरणमेव प्रमुखहेतुः, अतः 'सुखभंगभिया माभूः धर्मस्य विमुखस्त्वं'• इत्यादि वचनैः धर्मविमुखत्वं विनिन्दति जैनशासनम् । चार्वाकमते तु न हि किञ्चित्कर्तव्यमुपदिश्यते । धार्मिकोपदेशेषु न प्रत्येतव्यं इत्येव उद्घोषः । ऐहिकविषयोपभोगमेव परमपुरुषार्थ मन्वानान् चार्वाकान् विषयीकृत्य 'यद्यपि निषेव्यमाणाः मनस परिसुष्टिकराः विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः' इति विषयोपभोगस्य दुष्परिणाम प्रदर्शयन्ति 55. तस्वार्थसूत्रस्य सिद्धसेनगणिटीकायाम्-VI-अ, 2-3-4 सूत्र, 56. उणादिसूत्र-37. 57. बार्हस्पत्यस्तु नास्तिक:- अभिधानचितामणि-III-862. 58. तत्त्वार्थस्त्र-I-I. 59. तत्वार्थसूत्र-x-3. 60. प्रशमरति-56-57. 61. तत्वोपप्लव-पृ. 79, 15-18. 62. सूत्रकृताइटीका-पृ. 11. 63. रत्नकरण्डकश्रावकाचार-~2. 64. आत्मानुशासन-20. 65. प्रशमरति-107.
T-28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org