Book Title: Traverses on Less Trodden Path of Indian Philosophy and Religion
Author(s): Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 224
________________ जैन दर्शनस्य आस्तिकता वा नास्तिकता 215 अधुना तु नास्तिकतायाः षट्कारणान्येवावलम्ब्य जैनदर्शनाभ्युपगतसिद्धान्तान् प्रतिपाद्यैकैकशः प्रदर्शयामो परमारतकता जैनदर्शनस्य । देहातिरिक्तात्मनोऽस्तित्वमेव अपहनुवानानां चार्वाकाणां मतं निरग्य, चिचिव परे तत्त्वे विवेकस्तद्विवेचन' इति वदद्भिः आत्माऽस्तित्वसिद्धिः प्रत्यक्षानुमानागमप्रमाणः भत्रनीति तयुक्तकं प्रतिपादितमेव जनदर्शनपारंगतैः । आत्मा स्वसंवेद्यः । प्रत्यक्षस्यैव तत्सद्भावे प्रमाणस्य सद्भावात् । स्वसंवेदनतः बावर्जितो सदात्मा सिद्धो भवति ।58 सुरूयहं, दुःख्यह, इच्छावानहं इत्याद्यनुपचरिताहंप्रत्ययस्य आत्मग्राहिणः संवेदनात् । अत शरीरातिरिक्तः कश्चिदेतस्यालम्बनभूतो ज्ञानवानर्थोऽभ्युपगतव्यः तस्यैव ज्ञातृत्वोपपत्तेः स जीवः एवेति सिद्धः, स्वसंवेदनप्रत्यक्ष लक्ष्य आत्मा0 | चेतनायोगेन सचेतनत्वात् शरीरस्येवाहं प्रत्ययः इत्यादि प्रलापमात्र, यनः परसहस्त्र प्रदोपप्रभायोगेऽपि स्वयमप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दष्ट्र किंतु प्रदीपस्यैव । एवं चेतनायोगेऽपि न स्वयमचेतनस्य देहस्य ज्ञातृत्वं किंत्वात्मनः एवेति तस्यैव चाहं प्रत्ययोत्पादः । अनुमानप्रमाणेनापि आत्मास्तित्वसिद्धिः शक्या । काय कारपरिणतेभ्यो भूतेभ्यश्चैतन्यं समुत्पद्यते, तद्भाव एव चेतन्याभावात, मद्यागेभ्यो मदशकिवत् इत्याद्यनुमानाद् चैतन्यस्य भूतकार्यत्वसिद्धिः भवतीति चार्वाककथनमप्यसमा असमेव । यतो हि तद्भाव एव तद्भावादिति हेतोरनैकान्तिकत्वात मृतावस्थायां तदुभावेऽपि चैतन्यस्याभावात् 1 । अनुमानप्राह्यत्वे हि सिद्धे तदन्तर्भूतत्वेनागमोपमानार्थापत्तिग्राह्यतापि सिद्धा । वायुतेजसोरभावेन मृतावस्थायां न चैतन्यमिति उच्यते चेत् मतशरीरे बस्त्यादिभिः संपादिते वायौ, तेजस्युपनीते सति वा चैतन्यं नोपलभ्यते ।। तथा 'नास्ति जीवः' इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वनान्तरीयक एव, निषेधशब्दत्वात् । यथा 'नास्त्यत्र घटः,' इति शब्दोऽन्यत्र घटास्तित्वं संकेतयति । 37. गुगरत्नसूरि-षइदर्शनसमुच्चयटोका -पृ. २२०. 38. तस्वार्थ लोकवार्तिक, पृ. २६. 39. A प्रमेयक्रमलमार्तण्ड, पृ. ११२. ____B इदं सुखमिति ज्ञान दृश्यते न घटादिवत् । अ सुखीति तु ज्ञानं आत्मनोऽपि प्रकाशिका । [उद्धृतोऽयं लोकः रत्नाकरावतारिकायां-6-55. 40 षड्दर्शनसमुच्चयटीका, पृ. २२१. 41. षड्दर्शनसमुच्चयटीका, पृ. 223. 42. चार्वाका कथयन्ति यत् 'अथैषां (भूतानां) कायाकारपरिणतो चैतन्याभिव्यक्ती सत्यां तदूर्व तेषामन्यतमस्य विनाशे' अपगमे वायोस्तेजसश्चोभयो, 'देहिनो' देवदत्तास्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति । -शीलाकृतसूत्रकृताङ्गटीका-1-1-1-6-8. 43. षड्दर्शनसमुच्चयटीका-224. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302